अष्टाङ्गयोगः ( ( शृणु) /ˈəʃhtɑːnɡəjoʊɡəh/) (हिन्दी: अष्टाङ्ग योग) अर्थात् योगस्य अष्टानाम् अङ्गानां समूहः । पातञ्जलयोगसूत्रे उ्ल्लेखः वर्तते यत्, यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोsष्टाङ्गानि ।।२.२९।। इति । अनेन सूत्रेण एव राजयोगनामकस्य अध्यायस्य आरम्भः भवति [१] । एतानि अष्टाङ्गानि एव राजयोगत्वेन पतञ्जलिमूनिना प्रोक्तानि । अतः एतस्य राजयोगस्य नामान्तरम् एव ‘अष्टाङ्गयोगः’ इति । पतञ्जलिमुनिः अष्टांगयोगस्य भागद्वयम् अकरोत् । बहिरङ्गः, अन्तरङ्गश्चेति [१] ।
१. बहिरङ्गः :- अष्टाङ्गयोगस्य बहिरङ्गभागे यम-नियम-आसन-प्राणायाम-प्रत्याहाराः अन्तर्भवन्ति । शरीरादीनां बाह्यलक्ष्यानि साधयितुम् बहिरङ्गयोगस्य साधना भवति ।
२. अन्तरङ्गः :- अष्टाङ्गयोगस्य अन्तरङ्गभागे धारणा-ध्यान-समाधयः अन्तर्भवन्ति । अन्तरङ्गभागस्य एव नामान्तरं ‘संयमः’ इति । अन्तरङ्गयोगस्य पृष्ठे साधकस्य लक्ष्यं वस्तुनिष्ठं नापितु आत्मनिष्ठं भवति, यत् आत्मचिन्तनेन सिद्ध्यते ।
साधकाय राजयोगस्य प्रत्येकसोपानम् आगामिसोपानस्य कृते पृष्ठभूमिकात्वेन कार्यं करोति । तेषां सोपानानां निश्चितं सीमाङ्कनं न भवति । यतो हि सोपानस्य स्थितेः ज्ञानं केवलम् अनुभवेनैव भवितुम् अर्हति । राजयोगस्य उत अष्टाङ्गयोगस्य साधानायाः प्रारम्भिके काले साधकः यदि साधकसमूहेन सह निवसेत्, तर्हि योग्येन वातावरणेन तस्य विकासः शीघ्रं भवति [२] । अतः योगिनः वदन्ति यत्, प्रारम्भिके काले योग्याचार्यस्य सान्निध्ये योगाभ्यासेण सर्वासां समस्यानां नाशः भवति इति ।
पातञ्जलयोगसूत्रस्य रचयिता महर्षिः पतञ्जलिः । अयं पतञ्जलिः जीवः ईश्वरश्चेति तत्वद्वयं स्वीकरोति । अतः एव अस्य दर्शनस्य "सेश्वरसांख्यदर्शनम्" इति नामान्तरम् । अस्यैव शास्त्रस्यापरं नाम "सांख्यप्रवचनम्" इति । एतद्दर्शनं पतञ्जलिना प्रणीतत्वात् "पातञ्जलदर्शनम्" इत्यपि व्यवहारयोग्यं भवति । यद्यपि पतञ्जलेः पूर्वाचार्याः हिरण्यगर्भयाज्ञवल्क्यादयः अनेके आचार्याः योगशास्त्रस्य प्रवक्तारः आसन्, अथापि जनसाधारणानां कृते पतञ्चलिरेव तं योगशास्त्रं सूत्ररूपेण ग्रन्थीकृत्य सम्यक् सरलरीत्या व्याजहार इति हेतोः अस्य योगदर्शनस्य "पातञ्जलदर्शनम्" इति नाम सयुक्तिकं तिष्ठति ।
योगसूत्राषां भाष्यं महर्षिव्यासेन कृतमासीत्, तदेव प्रमाणतमो वर्ततेऽद्य।
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
अस्मिन् योगशास्त्रे चत्वारः पादाः सन्ति । तेषां नामानि क्रमाद् भविष्यन्ति -समाधिपादः, साधनपादः विभूतिपादः, कैवल्यपादश्चेति । प्रथमे पादे भगवान् पतञ्जलिः -‘अथ योगानुशासनम्’,[३] इति शास्त्रारम्भस्य प्रतिज्ञां करोति । अनन्तरं योगस्य परिभाषा अस्ति -"योगश्चित्तवृत्तिनिरोधः" [४] इति । चित्तवृत्तयः-प्रमाणविपर्ययविकल्पादयः । एतेषां निर्वर्तनं योगशब्दार्थः । समाधिशब्दस्यार्थः -सम्यक् आधानम् इति, अर्थात् चित्तस्य स्वात्मस्वरूपे अवस्थापनमिति । योगवासिष्ठे समाधिलक्षणमेवमभिहितम्-
'इमं गुणसमाहारमनात्मत्वेन पश्यतः ।
'अन्तः शितलता यस्य समाधिरिति कथ्यते ॥ इति ।
द्वितीये साधनपादे -" तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः" (यो० सू०-१) इत्यादि सूत्रद्वारा चञ्चलचित्तपुरुषाणां तपः स्वाध्यायादि क्रियायोगः एवं यमनियमादिबहिरङ्गसाधनभूतानां तत्त्वानामुल्लेखः वर्णितः । अत्र तपः इति शब्देन चान्द्रायणादिक्लेशकारकस्य तपसः अर्थावबोधो न भवति, यतः चान्द्रयणादयः शरीरे क्लेशजनकत्वात् तेन चित्तस्य ऐकाग्य्रं न तिष्ठति । अत्र तपः शब्दार्थः इत्थंभूतः भवति-हितकारकं स्वल्पं सात्विकभोजनं तथा शीतोष्णसुखदुःखादीनां सहनं एवमिन्द्रियाणां निरोधात्मकं यद्भवति तत्तपः इत्युच्यते । योगशास्त्रे तपः प्रसन्नकरणात्मकं वर्तते न तु पीडात्मकम् । स्वाध्यायस्यार्थः-मोक्षशास्त्राध्ययनं या नियमपूर्वकं प्रणवादिजपानुष्ठानमिति । ईश्वर-प्रणिधानं नाम परमात्मनः अनुचिन्तनम् अथवा परमात्मनि सर्वकर्मणां समर्पणम् इति भवति । सर्वेषु क्रियायोगेषु ईश्वरप्रणिधानं नाम क्रियायोगः उत्तमः इति स्वीक्रियते । "यद्यत् कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्" इति ईश्वरप्रणिधानयुक्तः पुरुषः सर्वकर्माणि ईश्वारार्पितसेवाबुध्या करोति इत्यादयः विषयाः प्रतिपादिताः । तृतीये विभूतिपादे -जन्मान्तरज्ञानं, भूतभविष्यदर्थकं ज्ञानं, अन्तर्हितम् इत्यादि अनेकप्रकाराः सिद्धयः उपन्यस्ताः । चतुर्थे कैवल्यपादे -"जन्मौषधिमन्त्रतपः समाधिजाः सिद्धयः" [५] इति सूत्रेण पञ्चानां सिद्धीनां वर्णनं करोति । देवतानां सिद्धिः जन्मना एव जायते । एवं पक्षिणामाकाशे उड्डयनं पशूनां जलतरणमित्यादि जन्मतः एव प्रसिद्धः । ओषधेभ्यः सिद्धिः प्राप्यते । आयुर्वेद, रसेश्वरदर्शनादिषु सिद्धिरियं वर्णिता । मन्त्रेण एवं तपोबलेन सिद्धीनां प्राप्तिवर्णनं तन्त्रादिशास्त्रेषु मिलिष्यति । समाधेः सिद्धिः शास्त्रस्यास्य गौणविषयभूता भविष्यति । यमनियमादि अष्टाङ्गोपासनेन यदा योगवृक्षः फलति तदा पूर्णभावनया समाधिरुपफलपरिपकानन्तरं प्रकृति-पुरुषयोः भेदात्मकः साक्षात्कारः सिध्यति । तदानीं असंगः पुरुषः स्वस्वरूपावस्थानेन तिष्ठतीति कृत्वा आत्यन्तिकदुःखविनाशरूपः मोक्षः सिध्यति । अस्मिन् योगशास्त्रे षड्विंशतितत्त्वानि भवन्ति । यथा सांख्याभ्युपगतानि पञ्चविंशतितत्त्वानि, एतेषामतिरिक्तत्वेन एकः ईश्वरः अस्तीति ईश्वरतत्त्वमपि पतञ्जलिरयं स्वीकरोति इत्यतः अस्य नाम सेश्वरवादी सांख्यः इति । ईश्वरस्य लक्षणमेव प्रतिपादयति पतञ्जलिः क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः (यो० सू० १-२४) इति ।
वैदिकी जीवनपद्धतिः धर्मार्थकाममोक्षरूपिणि पुरुषार्थचतुष्टये आश्रिता वर्तते । अन्तिमः पुरुषार्थः एव जीवनस्य अन्तिमम् उद्देश्यम् अस्ति । तदर्थमेव दर्शनशास्त्राणां प्रवृत्तिर्जायते यद्यपि सर्वाणि दर्शनानि स्व-स्वसिद्धान्तानुसारं मोक्षस्य निरूपणमकुर्वन् तथापि योगदर्शनं मोक्षस्य कृते साक्षात्कृतयत्नो विधीयते । मोक्षस्य कृते एव योगस्य उदयः सञ्जातः । इदं तात्पर्यं ‘योग’ पदस्य व्युत्पत्त्याऽपि स्पष्टमस्ति । “युज् समाधौ” धातोः योगशब्दस्य निष्पत्तिः संजाता । आत्मनः परमात्मनि विलय एव योग उच्यते । यदा त्रिविधदुःखानाम् एकान्तिकी आत्यन्तिकी च निवृत्तिर्भवति, तदा आत्मा स्वरूपे विलीनो भवति । तत्पश्चात् जननमरणादयः पुनर्न जायन्ते ।
अस्य आत्मसाक्षात्कारस्य शास्त्रीयं मार्गदर्शकं योगशास्त्रमस्ति । समाधेरवस्थायाः अपरः पर्यायो योगः एवास्ति । चित्तवृत्तिः बाह्मजगतः अपवार्य आन्तरतत्त्वे स्थिरयेत् इत्याकारकोऽयं योगमार्गोऽत्र प्रतिपादितः । योगदर्शनं वैदिकदर्शनमस्ति यतो हि वेदेषु उपनिषत्सु च योगस्य सोपायं वर्णनं प्राप्यते । प्राचां ऋषीणां त्रैकालिकज्ञानस्य मूलमिदं योगदर्शनमस्ति, अतोऽस्य प्राचीनता असन्दिग्धा प्रतीयते । यदा वेदानाम् अपौरुषेयत्वं परीक्ष्यते तदा योगः एव तेषां अपौरुषेयत्वस्य साधक इति सिद्ध्यति । यतो हि ऋषयोऽपि योगेन एव मन्त्राणां साक्षाद्दर्शनं कृतवन्तः । ते मन्त्रप्रणेतारो नासन् ।
अस्य अलौकिकवेदज्ञानजन्ययोगदर्शनस्य क्रियान्वयनं समाधिं विना नैव सम्भवति, अतः योगोवेदादपि प्राचीनं प्रतीयते । यद्यपि योगोऽपि एकं विशिष्टं ज्ञानमस्ति तथा च वेदाः अपि ज्ञानरुपाः सन्ति । ज्ञानस्य कदापि विनाशो नैव जायते । वेदाः अनादिज्ञानरूपाः वर्तन्ते । तेषामालोके योगमार्गस्य दर्शनम् अभवत् येन पश्चात् अदृष्टज्ञानम् अन्तर्निहितं ज्ञानं वा पुनः प्रकाशितम् । वैदिकदर्शनेषु योगस्य महत्त्वपूर्णं स्थानमस्ति । अवैदिकैः जैनबौद्धादिदर्शनैरपि अस्य महत्त्वं स्वीकृतं, स्वसम्प्रदायेषु च सादरं योगस्य प्रतिष्ठापना विहिता । उदाहरणार्थं जैनदर्शनस्याचार्येण ’उमास्वामिना हेमचन्द्रेण’ च योगप्रक्रियाया विषयो विस्तरेण प्रतिपादितः । हठयोगानुगामिनि नाथसम्प्रदायेऽद्यापि योगस्य व्यावहारिकः अभ्यासो विधीयते ।
योगदर्शनस्य प्रणेता महर्षिः पतञ्जलिः आसीत् । तद्र्चना योगसूत्रनाम्ना प्राप्यते । “ अथ योगानुशासनम्” इति सूत्रेण योगसूत्रस्य प्रारम्भो भवति । अनुशासन शब्दस्यार्थोऽस्ति-उद्दिष्टसिद्धान्तानां प्रतिपादनम् । अत एव इदमनुमानं स्वाभाविकं जायते यत् योगस्य सिद्धान्ताः पूर्वम् उपदिष्टाः । याज्ञवल्क्यस्मृतिग्रन्थे उल्लेखोऽस्ति यत् महायोगी हिरण्यगर्भ एव सर्वप्रथमं योगस्य उपदेशं प्रददौ । महर्षिणा पतञ्जलिना तस्योपदेशस्यैव सुव्यवस्थितं निरूपणं कृतम् ।
महाभाष्यस्य प्रणेता वैय्याकरणः पतञ्जलिरेव योगसूत्रस्य कर्त्ता आसीत् इति तथ्यम् अनेकैः प्रमाणैः सिदध्यति । यद्यपि सांख्ययोगौ एकीभूतौ मन्येते तथापि योगशास्त्रे सांख्य प्रतिकूलस्य स्फोटवादसिद्धान्तस्य समर्थनं विहितम् | स्फोटवादः व्याकरणशास्त्रे सुचर्चितोऽस्ति | अतः योगसूत्रकर्त्ता पतञ्जलिः स्फोटवादस्य प्रणेता महाभाष्यकार एकैवावर्तत । पतञ्जलेः स्थितिकालः ईस्वीपूर्वं द्वितीयशताब्दी स्वीक्रियते । यद्यपि कैश्चिद् विद्वद्भिः योगसूत्रस्य चतुर्थपादे विज्ञानवादस्य खण्डनमस्ति अतः योगसूत्राणां रचनाकालः बौद्ध-आचार्यात् मैत्रेयात् परवर्ती स्वीकृतः, किन्तु तन्मतं युक्तियुक्तं नास्ति | यतोहि बौद्धविज्ञानवादस्य अवधारणायाः पूर्वमपि विज्ञानवादस्य उल्लेखः प्राप्यते यथा छान्दोग्योपनिषदि ।
योगसूत्रस्य चत्वारः पादाः सन्ति –(१) समाधिपादः (२) साधनपादः (३) विभूतिपादः (४) कैवल्यपादश्च । प्रथमे समाधिपादे चित्तवृत्तीनां समाधिभेदानां च वर्णनं विद्यते । द्वितीये साधनपादे क्रियायोग- क्लेशनाशोपायानां योगाङ्गानां च प्रतिपादनमस्ति । तृतीये विभूतिपादे धारणा –ध्यान –समाधिरूपाणां अवशिष्टानां विशिष्टयोगाङ्गानां प्रतिपादनेन सह योगाभ्यासजन्य –अदृश्यशक्तीनाम् अर्थात् विभूतीनामपि वर्णनं प्राप्यते । चतुर्थे कैवल्यपादे समाधिसिद्धि-निर्वाणचित्त-विज्ञानवादखण्डन –कैवल्यादयो विषयाः विस्तरेण निरूपिताः सन्ति ।
पतञ्जलिविरचितस्य योगसूत्रस्य एको भाष्यग्रन्थः प्रसिद्धोऽस्ति । तस्य नामास्ति व्यासभाष्यम् इति । योगसूत्राणां रहस्यं स्फुटीकर्त्तुम् अस्य भाष्यग्रन्थस्य अपयोगिता प्रामाण्यं च स्वीक्रियते । यद्यपि व्यासभाष्ये क्लिष्टताया आधिक्यमस्ति तथापि दुर्वहं नास्ति, यतो हि अस्य भाष्यस्यापि अनेके टीकाग्रन्थाः प्राप्यन्ते । वाचस्पतिमिश्रस्य तत्त्ववैशारदी “ विज्ञानभिक्षोः” “योगवार्तिकम् “ च श्रेष्ठौ टीकाग्रन्थौ स्तः । एतदतिरिक्तं हरिहरानन्द आरण्यक विरचिता एका अन्या टीका “ भास्वती” नाम्नाऽपि प्राप्यते । तत्त्ववैशारदी” विषयीकृत्य कालान्तरे राघवानन्देन “पातञ्जलयोगरहस्यम्” इति नाम्ना टीकाग्रन्थो रचितः ।
योगसूत्रमधिकृत्यापि अनेकाः टीकाः प्राप्यन्ते । यथा –भोजविरचिता भोजवृत्तिः, भावगणेशविरचिता वृत्तिः, रामानन्दयतिविरचिता मणिप्रभा, अनन्तपण्डितरचिता योगचन्द्रिका, सदाशिवेन्द्रसरस्वतीकृत “योगसुधाकराख्ये”, नागोजिभट्ट विरचिता ब्राह्मवृत्तिः, बृहतीवृत्तिश्च, ओमानन्दतीर्थप्रणीतः योगप्रदीपश्चेति ।
उपर्युक्ताः सर्वाः टीका अनुभविभिः योगसाधकैः रचिताः सन्ति । योगसूत्राणां परिज्ञानाय आसां सर्वासां टीकानामुपयोगिता प्रतीयते । स्वामिना ओमानन्दतीर्थेन लिखिते योगप्रदीपग्रन्थे विस्तृतभूमिकायां योगस्य स्वरूपम् उपस्थाप्य ग्रन्थस्य उपादेयता संवर्धिता । इयं टीका गीताप्रेस्, गोरखपुरतः प्रकाशिताऽस्ति ।
“योगश्चिवृत्तेर्निरोधः “ इति योगस्य परीभाषा योगसूत्रकारेण उदाहृता । चित्तञ्च क्षिप्त –मूढ –विक्षिप्त –एकाग्र –निरुद्धाख्यासु पञ्चभूमिषु विद्यमानं भवति । क्षिप्तभूमिः रजोगुणबहुला वर्तते । एषाऽवस्था दैत्य-दानव –उन्मत्तजनानां च भवति । मूढभूमिः तमोगुणबहुला भवति । इयं राक्षस-पिशाच-मदोन्मत्तानां जायते । विक्षिप्तभूमिः सत्त्वप्रधाना किन्तु रजोयुक्ता अपि भवति । इयं प्रथमभूस्थितानां योगिनां देवानां च चित्तभूमिरस्ति । इयं निरुद्धसत्त्वप्रधाना मन्यते । चित्तस्य सर्वासु वृत्तीषु उपरुद्धासु तत्तद्वृत्तीनां संस्कारमात्रेण युक्तं चित्तं निरुद्धं भवति । एषैव अन्तिमा भूमिरस्ति । चित्तवृत्तयोऽपि पञ्चविधाः प्रतिपादिताः –(१) प्रमाणवृत्तिः (२) विपर्ययवृत्तिः (३) विकल्पवृत्तिः (४) निद्रावृत्तिः (५) स्मृतिवृत्तिश्चेति । इमा रागद्वेषादिक्लेशानां कारणरूपाः सन्ति, तेषां विनाशिन्योऽपि भवन्ति, अतः आसां वृत्तीनां वर्गीकरणं द्विधा प्रतिपादितम् –क्लिष्टा अक्लिष्टाश्चेति ।
योगदर्शने सांख्यसम्मतानां त्रयाणां प्रमाणानामेव स्वीकृतिरस्ति । अत्रापि इतरप्रमाणानाम् अन्तर्भावः एषु प्रत्यक्षानुमानशब्दाख्येषु त्रिष्वेव प्रमाणेषु जायते ।
आसां वृत्तीनां विरोधादेव आत्मस्वरूपस्य दर्शनं भवति । अर्थात् सांसारिकदुःखानाम् आत्यन्तिकं निवृत्तिश्च जायते । आसां वृत्तीनां निरोधो अभ्यासेन वैराग्येण च भवति । वैराग्येण विवेकस्य उदयो भवति । अभ्यासेन च चित्तं सत्त्वे प्रतिष्ठते ।
चित्तवृत्तीः स्थिरयितुं योगाभ्यास आवश्यको भवति । तत्कृते योगाङ्गानां अभ्यासो विधीयते ।
योगस्य अष्टौ अङ्गानि अभिमतानि-
चित्तवृत्तेर्निरोध एव समाधिरुच्यते । समाधिर्द्विधा वर्तते –सम्प्रज्ञातसमाधिः, असम्प्रज्ञातसमाधिश्चेति ।
कस्मिंश्चिद् एकस्मिन् वस्तुनि चित्तस्य स्थैर्यं जाग्रतावस्था च इतरवृत्तीनां क्षये सति सम्प्रज्ञातः सबीजो वा समाधिर्भवति । अस्य समाधेश्चत्वारो भेदाः सन्ति –(१) वितर्कानुगतः (२) विचारानुगतः (३) आनन्दानुगतः (४) अस्मितानुगतश्च । एषु चित्तं स्थूलेभ्यः सूक्ष्मेषु आलम्बनेषु तिष्ठति ।
वृत्तीनां परमेण वैराग्येण निरोधे सति ज्ञातृ-ज्ञान-ज्ञेयानां भेदोपशमे सति चालम्बनस्य संस्कारमात्रे अवशिष्टे असम्प्रज्ञातः समाधिर्भवति । इयं निर्बीजसमाधिरपि उच्यते । अस्याम् अवस्थायां क्लेशाः नैव तिष्ठन्ति, न च कर्माशयाः ।
असम्प्रज्ञातसमाधेरपि भेदद्वयम् अस्ति-भवप्रत्ययः उपायप्रत्ययश्च । अविधावशात् निरोधस्समाधिः ‘भवप्रत्यय’ नाम्ना विज्ञायते ।अत एव रक्त-मांस-मेद –अस्थि-मज्जा शुक्रादिषाट्कौषिकस्य शरीरस्य पतनोपरान्तम् इन्द्रियेषु अथवा भूतेषु लीनाः संस्कारमात्रेण सहिताश्च जीवा ‘विदेह’ संज्ञका भवन्ति । श्रद्धा –वीर्य- स्मृति – समाधि-प्रज्ञाभ्य उत्पन्नः उपायप्रत्ययः योगिभिः प्राप्यते । इयमेकान्तिकी दुःखनिवृत्तिर्नास्ति । अत्र अविद्यायाः विनाशेन क्लेशाः अपि विनश्यन्ति । अतः चित्तं ज्ञाने प्रतिष्ठते ।
चित्तस्य निरोधं प्रति गत्यवरोधकाः चित्तविक्षेपाः भवन्ति । यथा-रोगः, अकर्मण्यता, भ्रान्तिदर्शनम्, निरुद्धाप्राप्ति, समाधौ चेतसः अस्थैर्यम् इत्यादि । चित्तविक्षेपग्रस्ताः जनाः दुःखं दौर्मनस्यं कम्पनं श्वासप्रश्वासादिनां चानुभवन्ति । अतः एषामवरोधाय चित्तस्य तत्त्वे स्थापयितुं अभ्यास कार्यः । सर्वेषु प्राणिषु- मैत्रीभावः, करुणाभावश्च, पुण्यात्मनः प्रति प्रसन्नता, पापकारिणामुपेक्षा च करणीयाः ।
असमाहितचित्ताः अपि जनाः तपः-स्वाध्याय, ईश्वरप्रणिधानादिभिः योगे प्रवर्तन्ते। फलस्वरूपं समाधिभावस्य उदयः क्लेशानां विनाशश्च जायेते । क्लेशाः प्रायेण अविद्यायाः आच्छादिताः भवन्ति । तद् मिथ्याज्ञानं भ्रान्तिरपि कथ्यते । क्लेशः पञ्चधा प्रतिपादितः –अविद्या, अस्मिता, रागः, द्वेषः, अभिनिवेशश्च । अनात्मपदार्थः आत्माऽस्तीति अविद्या वर्तते । द्रष्ट्रादृश्ययोरभिन्नताऽस्तीति अस्मिता वर्तते । सुखस्य उत्कटेच्छा रागो भवति । दुःखहेतुभ्यः ईर्ष्याभावो द्वेषः । मृत्योर्भयश्चाभिनिवेशो भवति ।
परिणामः त्रिविधः । धर्मपरिणामः, लक्षणपरिणामः, अवस्थापरिणामश्चेति ।
विद्यायाः अभावः अविद्या इति व्युत्पत्त्या निर्मक्षिकम् इत्यत्र अव्ययीभावसमासेन मक्षिकानामभावः यथा प्रतीयते तथा पूर्वपदप्रधानग्रहणेन अविद्या पदशब्दार्थः विद्याभावः इति सिध्यति । अथवा न विद्या अविद्या इति विग्रहे नञ् तत्पुरुषसमासः प्रयुज्यते तर्हि विद्याविरोधित्वेन अन्यः अर्थः उच्यते । यथा, अब्राह्मणः अराजपुरुषः इत्यादिषु ।
एकतायाः नाम कैवल्यमिति । प्रकृतेः कार्यभूतमहत्तत्वादीनां विलयेन, एवं पुरुषेण सह प्रकृतेः आत्यन्तिकवियोगेन एव प्रकृतेः एकाकित्वं सिद्धम् । पुरुषस्य कैवल्यमेतद् भवति यत् आत्मा स्वात्मनि वर्तमानानि समस्तोपाधिकस्वरूपाणि त्यक्त्वा स्वमूलस्वरूपे स्थायित्वेन वर्तमानत्वमिति ।
योगदर्शने प्रतिपादितः ईश्वरः मुक्तजीवः कैवल्यमुपगतो योगी वा नास्ति अपितु तदपेक्षया भिन्नो विद्यते । मुक्तजीवः अथवा केवली पुरुषः पूर्वसांसारिकबन्धनेभ्यो मुक्तो भवति किन्तु ईश्वरस्तु सदैव मुक्तो भवति । प्रकृतौ लीनः पुरुषोऽपि ईश्वरो नास्ति । ईश्वरः सर्वदा इच्छा-ज्ञान-क्रियारूपाभिः शक्तिभिः सम्पन्नो भवति । एताः शक्तयोऽपि ईश्वरे स्वाभाविक्य एव सन्ति । अनादिकालादेव ईश्वरे एताः विद्यन्ते । ईश्वरश्चैतत्प्रभावात् एव ऐश्वर्यसम्पन्नोऽस्ति । जीवानुग्रह ईश्वरस्य प्रधानः गुणोऽस्ति ।
प्रणवः अर्थात् ओङ्कारः ईश्वरस्य वाचको वर्तते । तस्य ईश्वरस्य सम्प्राप्तिः स्वाध्यायेन योगसम्पत्त्या वा सम्भवति । ईश्वरप्रणिधानेनैव चित्तस्य विक्षेपाः नश्यन्ति । समाहितचेताः योगाभ्यासी ईश्वरचिन्तनेन निर्मलां बुद्धिं लभते । तेन तस्मिन् ऐश्वर्यस्य उदयो भवति । यद्यपि ऐवर्यस्य प्राप्तेरनन्तरं बहवो विध्ना उपतिष्ठन्ति किन्तु ईश्वरप्रणिधानेन तेषां नाशो भवति । एवं समाधिस्थो भूत्वा योगी ईश्वरं चिन्तयेत् तदैव तस्य कैवल्यलाभो भवति । ईश्वरत्वस्य स्वीकृतेरेव योगदर्शनं सेश्वरसांख्यमिति व्यवाह्रियते ।
योगदर्शनं ईश्वरं विश्वसिति । तत्र कारणानि –
ईश्वरः क्लेशकर्मविपाकसंस्कारैः रहितः । मुक्तपुरुषैर्भिन्नः । देशकालातीतः । सर्वज्ञः, सर्वशक्तः,सर्वव्यापी,परिपूर्णः,ज्ञानस्वरूपी,गुरुः,वेदानामुपदेशकश्च । “औम्” इतीदं तस्य सङ्केतः । ईश्वरः जगतः सृष्टिस्थितिलयानां न हेतुः । सः विशेषपुरुषः । आत्मानि न शिक्षति । सः मुक्तिं न प्रयच्छति । क्लेशान् अपनुद्य गुरुरिव मार्गं दर्शयेत् । मोक्षस्तु पुरुषेण स्वप्रयत्नेन साध्यः । देवः तत्साधने केवलं सहकरोति ।
ग्रन्थः | कर्ता |
योगसूत्रम् | पतञ्जलिः |
व्यासभाष्यम् (योगसूत्रटीका) | व्यासः |
भास्वती (व्यासभाष्यस्य टीका) | हरिहरानन्दः आरण्यकः |
मणिप्रभाटीका (योगसूत्रटीका) | रामानन्दयतिः |
योगचन्द्रिका (योगसूत्रटीका) | अनन्तपण्डितः |
योगसूत्रवृत्तिः (योगसूत्रटीका) | भावगणेशः |
योगसुधाकरः (योगसूत्रटीका) | सदाशिवचन्द्रसरस्वती |
लघ्वीवृत्तिः (योगसूत्रटीका) | नागोजीभट्टः |
तत्त्ववैशारदी | वाचस्पतिमिश्रः |
योगसारः (तत्त्ववैशारद्याः टीका) | विज्ञानभिक्षुः |
योगवार्तिकम् | विज्ञानभिक्षुः |
पातञ्जलरहस्यम् | राघवानन्दसरस्वती |
भोजवृत्तिः/भोजमार्तण्डः | भोजराजः |
नाम | राज्यम् | सङ्केतः |
---|---|---|
राष्ट्रियसंस्कृतसंस्थानम् http://www.sanskrit.nic.in |
देहली (दशराज्येषु अस्ति) | राष्ट्रिय संस्कृत संस्थान
मा. स. वि. मन्त्रालय के अन्तर्गत स्थापित 56-57 इन्स्टीट्यूशनल एरिया जनकपुरी नई दिल्ली - 110 058 ई-मेल: rsks@nda.vsnl.net.in |
राष्ट्रियसंस्कृतविद्यापीठम् http://www.rsvidyapeetha.ac.in |
आन्ध्रप्रदेशः | तिरुपतिः-५१७५०७. आन्ध्रप्रदेशः |
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम् http://www.slbsrsv.ac.in |
देहली | बि-४, कुतुब् इन्स्टिट्युशनल् येरिया, निव् देहली -११००१६ |
लकुलीश-योग-विश्वविद्यालयः https://www.lyu.ac.in |
अहमदाबाद | लोटस-व्यू, बालाजी-मन्दिरस्य समीपे, निरमा-विश्वविद्यालयस्य सम्मुखं, एस.जी. हाईवे, छारोडी, अहमादाबाद, गुजरात - 382481 |
अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहा यमाः ।।२.३०।। इति पातञ्जलयोगसूत्रे यमाः प्रोक्ताः । अहिंसा, सत्यम्, अस्तेयं, ब्रह्मचर्यम्, अपरिग्रहः चेति यमाः [६] ।
अहिंसा अर्थात् प्रेम, अन्यस्य अहितं न करणीयं, जीवहत्या न करणीया, अन्येभ्यः कष्टं नोत्पादनीयं, शत्रुतायाः विचाराः मनसि नोद्भवेयुः इत्यनुसन्धेयम् [२] । अहिंसा त्रिधा भवति । बौद्धिकी, वाचिकी, शारीरिकी चेति ।
१. बौद्धिकी अहिंसा
‘आत्मवत् सर्वभूतेषु’ इत्यस्य अनुसन्धानं विधेयम् । अर्थात् सर्वेषु भूतेषु एकस्य आत्मतत्वस्य एव दर्शनं करणीयम् । बौद्धिकहिंसा यदा मानवस्य व्यवहारे अन्तर्भवति, तदा अन्यस्मात् प्राप्तं कष्टम्, अपमानं च तस्य बुद्धौ उत्तेजनां नोद्भावयति ।
२. वाचिकी अहिंसा
कठोरवचनैः प्रत्येकमनुष्यः आहतः भवति । शस्त्रेण जातः आघातः कालान्तरे विस्मर्तुं शक्यते, परन्तु वाचिकशस्त्रेण आहतं मनः दीर्घकालं यावत् पीडाम् अनुभवति । अतः कटुवचनैः अन्यस्य अपमानं, वधस्य आज्ञादानम्, अनिष्टं कर्तुं परामर्शदानं च वाचिकहिंसात्वेन परिगण्यते । एतेषां परित्यागं कृत्वा मधुरवचनं, प्रियकार्यं, हितकारीबोधनम्, उत्साहवर्धकवचनं च अहिंसायाः मार्गाय उत्तमं मन्यते ।
३. शारीरिकहिंसा
यदि बौद्धिकी-वाचिकहिंसायाः अभ्यासः भवति, तर्हि शारीरिकी अहिंसा स्वतः एव सिद्ध्यति ।
‘अहिंसा प्रतिष्ठायां तत् सन्निधौ वैर त्यागः’ अर्थात् अहिंसायां सुदृढे साधके परिव्याप्तः वैरभावः स्वतः एव नष्टः भवति । साधकः यदा अहिंसायां प्रतिष्ठितः भवति, तदा तं परितः एकस्याः आभायाः रचना भवति । यः कोsपि मनुष्यः तस्याम् आभायां यदा भवति, तदा सः अहिंसायाः विचारैः स्वयमेव परिपूर्णः भवति । अहिंसायाः सिद्धेः मापदण्डः अस्ति यत्, अहिंसकमनुष्यस्य समीपम् आगत्य हिंसकपशवः, हिंसकमनुष्याः च अहिंसायाः अनुगामिनः भवन्ति ।
भारतीयसंविधानस्य ध्येयवाक्यम् अस्ति यत्, ‘सत्यमेव जयते’ इति । परन्तु एषः केवलं भारताय नापि तु मनुष्येभ्यः सन्देशः वर्तते । बुद्ध्या, वचसा, कर्मणा च यत् समानं भवति तदेव सत्यम् अङ्गीक्रियते [७] । सत्यं द्विविधं प्रोक्तम् । बौद्धिकं, वाचिकं चेति ।
१. बौद्धिकसत्यम् :- राग-द्वेषरहितः बुद्ध्या जातः निश्चयः एव सत्यत्वेन परिगण्यते । धर्म-अधर्मयोः, वाद-प्रतिवादयोः यः सन्तुलितनिर्णयः भवति, तदेव सत्यम् । सः सन्तुलितनिर्णयः बुद्ध्याः कार्यम् अस्ति । अतः बुद्धौ निश्चयात्मकता एव बौद्धिकसत्यम् अस्ति ।
२. वाचिकसत्यम् :-
सत्यं ब्रूयात् प्रियं ब्रूयात्, मा ब्रूयात् सत्यम् अप्रियम् ।
प्रियं च नानृतं ब्रूयात्, एषः धर्मः सनातनः ।।
उक्तस्य श्लोकस्य आशयः अस्ति यत्, सत्यं वदन्तु, परन्तु तत् सत्यं प्रिय(मधुर)शब्दैः युक्तं स्यात् । अप्रियं सत्यं मा वदतु । प्रिय(मधुर)शब्दैः युक्तम् असत्यम् अपि मा वदतु ।
बौद्धिकसत्यस्य प्रतिष्ठानेनैव वाचिकसत्यस्य स्थितिः सुदृढा भवति । अन्यथा लोभेन, क्रोधेन, मोहेन, रागेण, द्वेषेण, भयेन च वशीभूतः मनुष्यः मिथ्याभाषणं कर्तुं बाद्ध्यः भवति । विचारे, वचने च सम्भूतस्य सत्यस्य व्यवहारे अनुसरणम् एव शारीरिकसत्यत्वेन परिगण्यते ।
सत्यस्य पालनेन साधके एकस्याः अद्भुतशक्त्याः आविर्भावः भवति । साधकस्य मनः गङ्गाजलवत् निर्मलं भवति । सत्यस्य साधकः स्वेप्सितानि वस्तूनि प्राप्तुं समर्थः भवति । तस्य वाणी सिद्धवाणी भवति । यस्य कस्यापि स्थितेः बुद्ध्या निश्चयं कृत्वा तं निश्चयं वाण्या प्रकटं कृत्वा वाण्यनुसारं व्यवहारः एव पूर्णसत्यत्वेन परिगण्यते । सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् इत्यनेन सूत्रेण सिद्ध्यति यत्, सत्यनिष्ठव्यक्तेः वचनानि सर्वदा फलीभूतानि भवन्ति इति ।
अन्यस्य अधिकारस्य वस्तुनः मनसा, वाण्या, शरीरेण च अचौर्यम्, अनयनम् एव अस्तेयत्वम् [८] । अस्तेयं त्रिविधम् । बौद्धिकं वाचिकं शारिरीकञ्च ।
१. बौद्धिक-अस्तेयम् :- ‘परद्रव्येषु अनभिध्याम्’ अर्थात् अन्यस्य द्रव्येषु कुदृष्टपातः अपि न करणीयः, अन्यस्य वस्तुनः/द्रव्यस्य विषये चिन्तनम् अपि न करणीयम् इति ।
२. वाचिक-अस्तेयम् :- स्वस्य वचनेन अपि चौर्यकर्मणि, लुण्ठनकर्मणि च अन्ये न प्रेरणीयाः । सामान्यतः दृश्यते यत्, मनुष्यः अन्यस्य द्रव्यं प्राप्तुम् असमर्थः अस्ति, तर्हि सः अन्यान् प्रेरयित्वा धनप्राप्त्यै प्रयासं करोति । तदपि वाचिक-अस्तेये अन्तर्भवति । उपदेशकाले, पाठनकाले च तथ्यम् अज्ञात्वापि तद्विषये मिथ्याकथनं, प्रश्नस्य अपूर्णोत्तरं, प्रश्नस्य उत्तरमेव न दीयते इत्यादयः वाचिक-अस्तेयस्य उल्लङ्घत्वेन परिगण्यन्ते ।
३. शारीरिक-अस्तेयम् :- विचार-वचनाभ्यां सह शारीरिकक्रियया अपि अन्यस्य द्रव्यस्य, वस्तुनः च चौर्यं, लुण्ठनं न क्रियते, तत् शारीरिकम् अस्तेयम् उच्यते । छल-बल-दलैः, स्वामिनः आज्ञया विना वस्तुनुनः उपरि स्वीकरणं, स्पष्टतया शारीरिक-अस्तेयं कथ्यते । बस्-याने स्थित्वा यस्य स्थलस्य कृते चिटिका गृहीता, तस्मात् स्थलात् अग्रे गमनम् अपि अस्तेये अन्तर्भवति ।
भारतीयसंस्कृतौ एव एषः शब्दः प्राप्यते [२] । अनेन भारतीयमूल्यानां गहनतायाः ज्ञानं भवति । अन्यासु भाषासु ब्रह्मचर्यशब्दस्य अनुवादः स्यात्, परन्तु ब्रह्मचर्यशब्दस्य समानार्थिशब्दत्वेन तस्य गणना न भवति । सामान्यतः व्यवहारे ब्रह्मचर्यम् अर्थात् असम्भोगः एव परिगण्यते । परन्तु महासमुद्रे स्थिता हिमस्य लघ्वी गिरिका द्रष्टुं शक्यते, परन्तु समुद्रस्य अन्तः सा गिरिका न अपि तु पर्वतमालिकाः भवन्ति । यां गिरिकां वयं पश्यामः, सा गिरिका तु पर्वतमालायाः १०% अपि भवति । अन्तः स्थिता विशालपर्वतमाला ९०% भवति । तथैव ब्रह्मचर्यस्य ९०% ज्ञानम् (अर्थः) योगरूपिसमुद्रे निहितम् अस्ति [२] ।
एतेन ब्रह्मचर्येण, देवादेवा देवत्वमाप्नुवन् ।
ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः ।।४४.१०।। उद्योगपर्व महाभारतम्
अर्थात्, ब्रह्मचर्यम् इहाभ्युदयस्य मोक्षप्राप्तेश्चापि साधनमिति । ब्रह्मणः स्वरूपे विचरणम् अर्थात् ब्रह्मणः स्वरूपस्य मननम् एव ‘ब्रह्मचर्य’ शब्दस्यार्थः । ब्रह्मचर्यं त्रिविधं प्रोक्तम् । बौद्धिक-वाचिक-शारिरीकाणि चेति ।
१. बौद्धिकब्रह्मचर्यम् :- यस्य कस्यापि विषयस्य भोग-भावनाः मनसि नोद्भवनम् एव बौद्धिकब्रह्मचर्यम् । नारीस्मरणं, स्त्रीचर्चां, सौन्दर्याकर्षितः सन् वारं वारं स्त्रीदर्शनं, भोग-विलासस्य चर्चाचिन्तने, मैथुनं च न करणीयम् इत्येतानि बौद्धिकब्रह्मचर्ये अन्तर्भवन्ति ।
२. वाचिकब्रह्मचर्यम् :- वाचिकब्रह्मचर्ये केवलं वाणीसंयमस्य एव बाहूल्यम् अस्ति । अश्लीलगीतानां गायनं, एकान्तेषु अश्लीलचर्चा, स्त्रीसौन्दर्यस्य स्तुतिः च न करणीयम् इत्येतानि वाचिकब्रह्मचर्ये अन्तर्भवन्ति ।
३. शारीरिकब्रह्मचर्यम् :- यः साधकः बौद्धिक-वाचिकब्रह्मचर्यस्य पालनं करोति, तस्य कृते शारीरिकब्रह्मचर्यं सरलं भवति । उपस्थादिभिः कर्मेन्द्रियैः शारीरिकब्रह्मचर्यस्य पालनं भवति । स्त्रीस्पर्शः, आलिङ्गनं, चुम्बनं, विपरितलैङ्गिकैः सह सम्पर्कः च न करणीयः इत्येतानि एव शारीरिकब्रह्मचर्ये अन्तर्भवन्ति ।
सत्यान्वषकः, अहिंसकः साधकः परिग्रहं कर्तुं न शक्नोति । परिग्रहः अर्थात् वस्तुसङ्ग्रहः । परमात्मा परिग्रहं न करोति । सः स्वावश्यकतायाः अनुसारं नित्यम् आवश्यकवस्तूनि जनयति [२] । अतः साधकस्य तस्मिन् परमात्मनि दृढविश्वासः आवश्यकः यत्, परमात्मा तस्य आवश्यकतायाः वस्तूनि नित्यम् उत्पन्नं करिष्यति एव इति । शब्द-स्पर्श-रूप-रस-गन्धादीनां सम्बद्धानां भोगवस्तूनाम् असङ्ग्रहः एव अपरिग्रहः कथ्यते [२] । अपरिग्रहः त्रविधः प्रोक्तः । बौद्धिकः, वाचिकः, शारीरिकश्चेति ।
१. बौद्धिक-अपरिग्रहः :- गुणदोषादीनां निर्णेत्री बुद्धिः यदा ग्रहण-रक्षणादिनः अकल्याणकारिविषयान्, हिंसादीनि पापानि, काम-क्रोध-लोभ-मोह-भयादिनः च अस्वीकारं करोति, तदा साधकाय बौद्धिक-अपरिग्रहः सिद्ध्यति ।
२. वाचिक-अपरिग्रहः :- सर्वात्मना वाणीसंयमः वाचिक-अपरिग्रहत्वेन परिगण्यते । यथा – असत्यं, छल-कपटयुक्ताः शब्दाः, निन्दाकरणम्, वाण्याः दुरुपयोगः च अपरिग्रहे वर्ज्यः अस्ति । मौनं वाचिक-अपरिग्रहस्य महासाधनम् अस्ति ।
३. शारीरिक-अपिग्रहः :- स्वस्य आवश्यकतानुसारं धन-धान्यस्य, वस्त्र-भूमेः च उपार्जनं, संग्रहणं शारीरिक-अपरिग्रहत्वेन परिगण्यते । ‘तेन त्यक्तेन भुञ्जीथाः’ इत्यादेशानुसारं प्राप्तवस्तुनः त्यागभावेन उपयोगः करणीयः । स्वपरिवारस्य मोहवशेनापि पदार्थानां संग्रहः न करणीयः ।
शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ।। २.३२ ।। इति पतञ्जलियोगसूत्रे प्रतिपादितं वर्तते । शौचम्, सन्तोषः, तपः, स्वाध्यायः, ईश्वरप्रणिधानं च नियमाः प्रोक्ताः [६] ।
शौचम् त्रिविधं बौद्धिक-वाचिक-शारीरिकञ्चेति [२] ।
१. बौद्धिक-शौचम् :- काम-क्रोध-मोह-द्वेष-ईर्ष्या-अभिमान-कुविचारादीनां त्यागेन, दया-सहजता-नम्रता-अहिंसा-सत्यादीनां निरन्तरधारणेन च बुद्धिः शुद्धा भवति ।
२. वाचिक-शौचम् :- कठोरवचन-निन्दा-छल-असत्यवचानानां त्यागः, सत्य-मधुरवचन-स्नेह-सान्त्वादीनां सेवनं च वाचिकशौचत्वेन परिगण्यते ।
३. शारीरिक-शौचम् :- मृत्तिका-गोमय-गाजनीमृत्तिका-उबटन-त्रिफला-रीठादीनां जलेन सह उपयोगं कृत्वा शरीरस्य निर्मलीकरणम् एव शारीरिक-शौचं भवति । विरेचन-बस्ति-नेति-धौति-वमन-दन्तधावन-ब्रह्मदन्तधावन-जलनेति-आदीनां माध्यमेन शरीरस्य आन्तरिकभागानां शुद्धिः अपि शारीरिकशौचे अन्तर्भवति । सात्विकं, न्यायपूर्णार्जितधनेन प्राप्तं, परिमितम् अन्नं शरीरशौचार्थम् अत्युत्तमम् उक्तम् अस्ति । हिंसा-चौर्य-व्यभिचार-मांस-मदिरा-मैथुन-आदीनां परित्यागः एव शारीरिक-शौचम् उच्यते ।
सुखे-दुःखे, लाभे-हानौ, यशे-अपयशे, सिद्धौ-असिद्धौ, अनुकूलतायां-प्रतिकूलतायां च सर्वदा सन्तुष्टिः एव सन्तोषः उच्यते [२] । सन्तोषः त्रिविधः प्रोक्तः । बौद्धिकः, वाचिकः, शारीरिकश्चेति ।
१. बौद्धिक-सन्तोषः :- इच्छायाः दासः संसारस्य दासः भवति । यः स्व-ईच्छां दासीं भावयति, सः संसारस्य स्वामी भवति । अतः लोभ-मोह-राग-द्वेष-आदीनां त्यागं कृत्वा सन्तोषस्य आश्रयः कर्तव्यः ।
२. वाचिक-सन्तोषः :- चाटुकारिता-मिथ्यावचनयोः त्यागः वाचिक-सन्तोषः उच्यते । कटुवचनानि श्रुत्वा, अपमानितः भूत्वा अपि आवेशेन दुर्वचनानां मुखात् निर्गमनम् एव वाचिक-सन्तोषत्वेन परिगण्यते ।
३. शारीरिक-सन्तोषः :- शारीरिकहिंसा-व्यभिचार-चौर्य-बलात्कार-अत्याचार-कुकर्मादीनां त्यागः एव शारीरिकसन्तोषत्वेन परिगण्यते । दीनानां, दुःखितानां, रुग्णानां सेवा, ब्रह्मचर्यपालनं, अनुष्ठानम् इत्यादीनां सेवनं शारीरितसन्तोषः उच्यते ।
मनसा, इन्द्रियैः च संयमेन धर्मपालनम् एव तपः उच्यते । धर्मपालनाय कष्टं सोढव्यं, बुभुक्षा, पीपासा, शैत्यम्, औष्ण्यम् इत्यादीनि अपि सोढव्यानि भवन्ति [२] । तपस्त्रिविधम् । बौद्धिकं, वाचिकं शारीरिकञ्चेति ।
१. बौद्धिकं तपः :- मन-बुद्धि-चित्तयोः शान्तिः, स्वच्छता, पवित्रता, मानसवृत्तीनां निग्रहणं बोद्धिकतपः उच्यते ।
२. वाचिकं तपः :- क्रोधः, असत्यभाषणम्, अपमानास्पदानि वाक्यानि, घृणापूर्णवचनम् इत्यादीनां त्यागः वाचिकं तपः उच्यते ।
३. शारीरिकं तपः :- बुभुक्षायाः, पीपासायाः, शैत्यस्य, उष्णतायाः च सहनम् एव शारीरिकं तपः उच्यते । आत्मदर्शिनां, गुरूणां, विदुषानां च सेवा-सत्कारः, शुद्धता, सरलता, ब्रह्मचर्यपालनम्, अहिंसा इत्यादीनां सद्गुणानां दृढावलम्बनम् एव शारीरिक-तपत्वेन परिगण्यते ।
कल्याणकारिशास्त्राणाम् अध्ययनम्, इष्टदेवानां नामजपः, मन्त्रपाठः, स्तोत्रादीनां पठनम्, सत्साहित्यानां पठनं पाठनं च स्वाध्यायत्वेन परिगण्यते [२] । स्वाध्यायः त्रिविधः प्रोक्तः । बौद्धिकः, वाचिकः, शारीरिकश्चेति ।
१. बौद्धिक-स्वाध्यायः :- ॐकारस्य , गायत्रीमन्त्रस्य, गुरुमन्त्रस्य च निरन्तरं मननम् एव बौद्धिक-स्वाध्यायत्वेन परिगण्यते ।
२. वाचिक-स्वाध्यायः :- मन्त्राणोच्चारणं, प्रार्थानां, स्तुतिपठनं, पुराणानां कथनम् इत्यादीनां नित्यास्वादनम् एव वाचिकस्वाध्यायत्वेन परिगण्यते ।
३. शारीरिक-स्वाध्यायः :- सर्वप्रकारकेषु अध्ययनेषु शरीरं साधनत्वेन सर्वदा भवत्येव । स्तुतीनां, श्लोकानां, प्रार्थनानाम्, ईश्वरकथानां च लेखनं शारीरिकस्वाध्यायत्वेन परिगण्यते ।
साधकः आदिनं मनसा, वचसा, शरीरेण च यानि कर्माणि करोति, तानि सः ईश्वराय समर्पयति । सा समर्पणस्य प्रक्रिया एव ईश्वरप्रणिधानत्वेन परिगण्यते [२] । ईश्वरप्रणिधानं त्रिविधं प्रोक्तं । बौद्धिकं, वाचिकं शारीरिकञ्चेति ।
१. बौद्धिक-ईश्वरप्रणिधानम् :- साधकस्य बुद्ध्या जायमानाः क्रियाः ईश्वरप्राप्तेः लक्ष्यं साधितुम् एव भवन्ति । यथा – तर्कः, निश्चयः, विश्वासः, स्मरणम् इत्यादयः । मनसि पूर्णनियन्त्रणं कृत्वा बुद्धिः मनसः विषयान् प्रति गमनं स्थगयति । तां बुद्धिम् एव चित्ते विलीनां कृत्वा साधकः इन्दियाणां व्यापारान् उपशामयति । एषा प्रक्रिया एव बौद्धिक-ईश्वरप्रणिधानम् उच्यते । बौद्धिकप्रणिधाने साधकस्य मनसि एकं गहनं चिन्तनं भवति यत्, यत् किमपि अहं कुर्वन् अस्मि उत यत् किमपि मया क्रियमाणमस्ति, तत् सर्वम् अहम् ईश्वरस्य आदेशनैव कुर्वन् अस्मि इति ।
२. वाचिक-ईश्वरप्रणिधानम् :- वाणीद्वारा ईश्वरस्य गुणानां वर्णनं, स्तुतिगानं, प्रार्थानागानं, ॐकारस्य गानं, गायन्त्रीमन्त्रजपः इत्यादीनि कार्याणि वाचिक-ईश्वरप्रणिधानत्वेन परिगण्यन्ते ।
३. शारीरिक-ईश्वरप्रणिधानम् :- साधकस्य शरीरं रोगादिभ्यः दुर्बलं भवेत् चेत्, साधकः बौद्धिक-ईश्वरप्रणिधानं, वाचिक-ईश्वरप्रणिधानं च कर्तुम् असमर्थः भवति । बुद्धिः चिन्तनादिषु कार्येषु असमर्था भवति, वाक् अपि ईश्वरस्य गुणगाने, स्तुतिपाठे च असमर्था भवति । अतः शारीरिक-ईश्वरप्रणिधानस्य मुख्यता वर्तते । मनसा, वाचा, शरीरेण च यानि कर्माणि भवन्ति, तेषाम् ईश्वराय समर्पणम् एव शारीरिक-ईश्वरप्रणिधानत्वेन परिण्यते ।
साधकः यदा उपविशति, तदा सः स्थिरतायाः, सुखस्य च अनुभवं करोति चेत्, तत् आसनम् उच्यते । स्थिरसुखमासनम् [१] इत्येदं सूत्रं पतञ्जलिमुनिना योगसूत्रे प्रतिपादितं वर्तते । तद्यथा पद्मासनम्, वीरासनं, भद्रासनं, स्वस्तिकं, दण्डासनं, सोपाश्रयं, पर्यङ्कं, क्रौञ्चनिषदनं, हस्तिनिषदनमुष्ट्रनिषदनं, समसंस्थानं, स्थिरसुखं, यथासुखं चेत्येवमादीनि आसनानि प्रोक्तानि । यः कोsपि साधकः एकस्मिन् आसने एकप्रहरं (घण्टात्रयम्) यावत् सुखेन उपवेष्टुं शक्नोति, सः साधकः आसनं सिद्धं करोति [२] । योगपरम्परानुसारम् आसनानां प्रणेता स्वयं भगवान् शङ्करः अस्ति । चतुरशीतिलक्षयोनिषु जीवः भवति, अतः शिवेन चतुरशीतिलक्षानि आसनानि प्रणितानि [२] । शिवेन प्रणितेषु सर्वेषु आसनेषु कालक्रमे अधिकतमानि आसनानि लुप्तानि । अतः केवलं चतुरशीतिः आसनानि एव प्रचलितानि सन्ति । तेषु अपि त्रयस्त्रिंशत् आसनानि एव मुख्यानि इति योगिनां मतम् ।
तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः [२] इत्यनेन सूत्रेण पतञ्जलिमूनिना योगसूत्रे प्राणायामस्य निरूपणं कृतम् अस्ति । आसने स्थिरतायां प्राप्तायां सत्यां श्वास-प्रश्वासयोः स्वाभाविकगतेः नियमनं कृत्वा तयोः समनता स्थापनस्य प्रक्रिया एव प्राणायामत्वेन परिगण्यते । रेचक-कुम्भक-पूरकाणां प्रक्रिया एव प्राणायामत्वेन परिगण्यते [२] । प्राणायामस्य प्रक्रियायां स्थानस्य, समयस्य, आसनस्य, विधेः च अति महत्वं भवति । प्राणायामस्य प्रक्रियायाः अनेके विधयः सन्ति । तेषु केचन विधयः अधः निरूपिताः ।
प्रत्याङ्रूत्युपसर्गाभ्यां "हृञ् हरणे" इत्यस्माद्धातोः प्रत्याहारशब्दः निष्पन्नः । भोजनस्य अन्तः इति अस्य शब्दस्य अर्थः भवति । रूप-रस-गन्ध-शब्द-स्पर्शाः इन्द्रियाणां भोजनम् अस्ति । इन्द्रियाणि एतेषां निरन्तरं भोजनं कुर्वन्ति भवन्ति । मनः इन्द्रियाणि यन्त्रत्वेन उपयुज्य एव विषयाणाम् उपभोगं कुर्वन्ति । तेन चेतनया सह विषयाणां सम्बन्धः भवति । प्रत्याहारस्य प्रक्रियया सः सम्बन्धः विच्छिन्नः भवति । एतस्य फलस्वरूपतः चित्तम् अन्तर्मुखि भवति । प्रत्याहारस्य साधनानि मानसिकशक्तीः जनयन्ति । ततः मनः येभ्यः मार्गेभ्यः जगतः भ्रमणं करोति स्म, तेभ्यः मार्गेभ्यः एव अन्तर्जगत् प्रवेष्टुं शक्नोति [२] ।
साधकः यदा धारणायाः सोपानम् आरोहति, तदा सः प्रत्याहारं साधयति । तेन विना सः धारणां कर्तुम् असमर्थः भवति ।
देशबन्धश्चित्तस्य धारणा [३] इति पतञ्जलिमूनिना योगसूत्रे प्रतिपादितं वर्तते । बाह्ये उत शरीरे कुत्रापि एकस्मिन् स्थाने चित्तस्य केन्द्रीकरणम् एव धारणात्वेन परिगण्यते [२] । नाभिचक्रं, हृदयकमलम् इत्यादयः शरीरस्य आन्तरिकदेशाः सन्ति । आकाशः, सूर्यः, चन्द्रमाः, मूर्तिः, देवता इत्यादयः बाह्यदेशाः भवन्ति । एतयोः आन्तरिकबाह्यदेशयोः एकस्मिन् स्व चित्तस्य केन्द्रीकरणम् एव धारणा भवति । एकं पदार्थं मनसि संधार्य साधकस्य चित्तं तत्र केन्द्रितं भवेत् चेत्, मनसः सा स्थितिः धारणा उच्यते ।
धारणा मनसः विकासशक्तिः वर्तते । धारणया विना योगः सम्भवः न भवति । धारणायाः अर्थः संयमः अपि भवति । अतः धारणायां मनसः विचरणस्य स्थानं सीमितं, निश्चितं च भवति । धारणायां पञ्चतत्वधारणा योगसाधनायाः क्षेत्रे अति प्रसिद्धा प्रक्रिया वर्तते । तस्यां पञ्चतत्वधारणायां पृथ्वी-जल-अग्नि-वायु-आकाशेत्येतेषां पञ्चतत्वानां धारणा भवति [२] ।
स्वस्य आन्तरिकजीवनेन सह लयः, सामञ्जस्य स्थापनं च एव ध्यानम् उच्यते [२] । चेतनायाः विकासः, इन्द्रियाणाम् अतिक्रमणं च ध्यानेन एव भवतः । स्वस्य विस्मरणं, शून्यत्वं, पलायनं च कर्तुं ध्यानप्रक्रिया नास्ति । वस्तु-विषयकेन्द्रिताः मनसः याः अनुभूतयः भवन्ति, ताभ्यः अनुभूतिभ्यः ध्यानमार्गेण मनः उदासीनं भवति [२] ।
ध्यानं शरीरे अलौकिकीं गहनाम् अवस्थां निर्माति, यया शरीरस्य विभिन्नाङ्गानि भारमुक्तानि, रोगमुक्तानि च भवन्ति । निद्रावस्थायाम् अस्माकं मनः विश्रान्तिं प्राप्तुं न शक्नोति, यतो हि निद्रावस्थायाम् अस्माकं मनः स्वपनादीषु कार्येषु रतं भवति । ध्यानावस्थायां यदा मनः सम्पूर्णं लीनं भवति, तदा तत् विश्रान्तिं प्राप्नोति [२] । साधकः यदा ध्यानस्य एतादृशीम् अवस्थां प्राप्नोति, तदा सः घण्टात्रयस्य निद्रया अपि विश्रान्तिम् अनुभवति । ध्यानस्य असङ्ख्याकाः पद्धतयः सन्ति । तासु अत्र काश्चन निर्दिष्टाः ।
२. श्वासध्यानम्
५. अन्तर्मौनम्
६. अजपाध्यानम्
समाधिः मनुष्यजीवनस्य स्वाभाविकं लक्ष्यम् अस्ति । इन्द्रियाणां ज्ञानं न भवेत् इत्येव समाधिः [२] । समाधेः लक्षणं ज्ञानम् अस्ति । पूर्णज्ञानस्य अवस्था एव समाधिः उच्यते । प्रत्येकः मनुष्यः समाधेः अधिकारी भवति । समाध्यवस्थायां साधकः चेतनायाः परमबिन्दुपर्यन्तं गच्छति, तस्मात् बिन्दोः परं कापि चेतना न भवति । सा अवस्था चेतनायाः गहनतमः स्तरः भवति, यया साधकस्य व्यक्तित्वबोधः अपि समाप्तः भवति । समाध्यवस्थायां ज्ञानस्य अपि आवश्यकता न भवति । यतो हि समाधौ आत्मा एव वाहनरूपेण कार्यं करोति [२] । सा स्थितिः चित्तस्य समानतायाः, उन्नत्याः च स्थितिः भवति, यस्यां शान्तिः, शक्तिः, ज्ञानं च स्वतः आगच्छन्ति ।
यदा साधकः निरन्तरं साधनां कुर्वन् समाध्यवस्थायां ध्यानस्य गहनतां प्रति गच्छति, तदा सः द्वाभ्यां महत्वपूर्णस्थितिभ्याम् उपसृत्य गच्छति [२] । ते स्थिती चेतनानिषेधः, चेतनाविस्तारश्च ।
१. चेतनानिषेधः :- एतस्याम् अवस्थायाम् इन्द्रियाणाम् एकस्मिन् बिन्दौ अपकर्षः (निषेधः) भवति । एकवारम् इन्द्रियाणाम् अपकर्षणे जाते सति साधकः द्वितीयावस्थां प्रति गच्छति ।
२. चेतनाविस्तारः :- एतस्याम् अवस्थायां चेतनायाः आन्तरिकविस्तारः भवति । एतस्याम् अवस्थायां मनः प्रतीवकवत् भवति । समाधेः आस्वादनान्तरम् अपि साधकः सांसारिकं जीवनं यापयितुं शक्नोति । तस्य सम्मुखं यानि वस्तूनि, सम्बन्धाः च भवन्ति, तेषां विषयेषु साधकस्य दृष्टिकोणः परिवर्तितः भवति ।
http://www.ashtangayoga.info/practice/
http://www.yogapoint.com/info/ashtanga.htm