सर् चिन्तामण् द्वारकानाथ देशमुख् | |
---|---|
१९५९तने वर्षे चिन्तामण् द्वारकानाथ देशमुख् | |
अर्थसचिवः | |
In office मे २९, १९५०[१]-१९५७ | |
Prime Minister | जवाहरलाल नेह्रू |
Preceded by | जान् मथै |
Succeeded by | टि टि कृष्णमाचारि |
तृतीयः | |
In office १९४३-४९ | |
Preceded by | जेम्स् ब्रैड् टेलर् |
Succeeded by | बेनेगल् राम राव् |
व्यैय्यक्तिकसूचना | |
Born |
नाटे, मह्दनगरम्, रायगडमण्डलम्, महाराष्ट्रराज्यम् | १४ १८९६
Died | २ १९८२ | (आयुः ८६)
Nationality | भारतीयः |
Alma mater | केम्ब्रिड्ज् विश्वविद्यालयः |
चिन्तामण् द्वारकानाथ देशमुखवर्यः( Chintaman D Deshmukh) भारतस्य प्रमुखः अर्थशास्त्रज्ञः आसीत् । सः सी. डि. देशमुख् इत्येव प्रसिद्धः आसीत् । अयं 'भारतीयरिसर्व् बेङ्क्' ( Reserve Bank Of India) नामकस्य वित्तकोशस्य प्रथमप्रशासकः अपि आसीत् । १९४३ तमे वर्षे आङ्ग्लसर्वकारपरतया रिसर्ववित्तकोशे अध्यक्षपदवीं अलङ्कृतवान् । स्वातन्त्र्यानन्तरं सः केन्द्रसर्वकारस्य सचिवमण्डले ६ वर्षाणि यावत् अर्थसचिवत्वेन सेवां कृतवान् ।
१८९६ तमे वर्षे जनवरीमासस्य १४ दिनाङ्के महाराष्ट्रराज्यस्य रायगढदुर्गस्य समीपस्थे 'नाटा'नामके ग्रामे देशमुखवर्यः अजायत । एतस्य पिता द्वारकानाथगणेशः सुप्रसिद्धः न्यायवादी आसीत् । माता भागीरथीबाई । एतेषां पूर्णकुटुम्बः एव समाजसेवाकार्ये निरतः आसीत् । बाल्यादारभ्य देशमुखवर्यः प्रतिभान्वितः उत्तमविद्यार्थी च आसीत् । सः मुम्बैविश्वविद्यालयस्य दशमकक्षापरीक्षायां राष्ट्रियस्तरे प्रथमस्थानं प्राप्तवान् । १९१७तमे वर्षे ब्रिटेन्-देशस्य 'केम्ब्रिज् जीसस् विद्यालयतः' सस्यशास्त्रे 'फ़्रान्क् स्मार्ट्' पदकेन सह विज्ञानपदवीं प्राप्तवान् । १९१८तमे वर्षे लन्डन्-नगरे 'ई सि एस्' परीक्षायां प्रथमस्थानं प्राप्तवान् ।
देशमुखवर्यः एकाम् आङ्ग्लकन्याम् ऊढवान् । एतयोः एका पुत्री अपि जाता । किन्तु भारतस्य स्वातन्त्र्यानन्तरं सा इङ्ग्लेण्ड्देशं प्रति गतवती । अनन्तरं देशमुखवर्यः दुर्गाबाई इत्याख्यां कन्यां परिणीतवान् । सा काङ्ग्रेस्पक्षस्य सदस्या स्वातन्त्रयोधा च ।
१९८२ तमे वर्षे अक्टोबर् मासस्य २ दिनाङ्के देशमुखवर्यः दिवङ्गतः ।