अनन्तनाथः | |
---|---|
चतुर्दशः जैनतीर्थङ्करः | |
अनन्तनाथस्य प्रतिमा | |
विवरणम् | |
ऐतिहासिकः कालः | ७ × १०२१० वर्ष पूर्व |
परिवारः | |
पिता | सिंहसेन |
माता | सुयशादेवी |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | अयोध्या |
निर्वाणम् | सम्मेदशिखरम् |
लक्षणम् | |
वर्णः: | सुवर्णः |
चिह्नम् | श्येनः |
औन्नत्यम् | ५० धनुर्मात्रात्मकम् (१५० मीटर) |
आयुः | ३०,००,००० वर्षाणि |
शासकदेवः | |
यक्षः | पातालः |
यक्षिणी | अङ्कुशा |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
अनन्तनाथः ( ( शृणु) /ˈənəntənɑːθəhə/) (हिन्दी: अनन्तनाथ,आङ्ग्ल: Anantnath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु चतुर्दशः तीर्थङ्करः अस्ति । भगवतः अनन्तनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं श्येनः च अस्ति । भगवान् अनन्तनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयश्चासीत् ।
कौमारावस्थायाम् अनन्तनाथस्य शरीरस्य औन्नत्यं पञ्चाशत् (५०) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “पाताल” इत्याख्यः यक्षः, “अङ्कुशा” इत्याख्या यक्षिणी च आसीत् । भगवान् अनन्तनाथः आजीवनं सत्यस्य, अहिंसायाः च नियमानां पालनं कृतवान् । सः जनान् सत्यमार्गं स्वीकर्तुम् अवबोधयति स्म ।
देवायुष्यं समाप्य भगवान् पुनः मृत्युलोकम् आगच्छत् । भरतक्षेत्रे अयोध्या-नामिका नगरी आसीत् । तस्यां नगर्यां चैत्र-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ रेवती-नक्षत्रस्य मध्यरात्रौ भगवतः अनन्तनाथस्य जन्म अभवत् [२]।
सिंहसेन-नामकः अयोध्यानगर्याः राजा आसीत् । सिंहसेनः अनन्तनाथस्य पिता आसीत्, माता च सुयशादेवी आसीत् । श्रावण-मासस्य कृष्णपक्षस्य सप्तम्यां तिथौ रेवती-नक्षत्रे रात्रौ सुयशादेवी तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव सुयशादेवी राज्ञे सिंहसेनाय चतुर्दशस्वप्नान् श्रावितवती । तस्यां रात्रौ एव भगवतः अनन्तनाथस्य जीवः सुयशादेव्याः गर्भं प्राविशत् [३]।
आगामि-दिने राज्ञा स्वप्नशास्त्रिणः आहूताः । स्वप्नानां फलादेशाय स्वप्नशास्त्रमावश्यकं वर्तते । स्वप्नशास्त्रिणः पूजयित्वा सुयशादेवी चतुर्दशः स्वप्नान् श्रावितवती । स्वप्नशास्त्रिणः स्वप्नानां फलादेशम् अश्रावयन् यत् – “सुयशादेव्याः गर्भे एकः श्रेष्ठः, विशिष्टश्च बालकः अस्ति । सः तीर्थङ्करत्वं प्राप्स्यति ।
गर्भकालस्य समाप्त्यनन्तरं भगवतः अनन्तनाथस्य पीडारहितं जन्म अभवत् । भगवतः जन्मसमये सम्पूर्णं विश्वं शान्तम् आसीत्, केवलं दिशः एव शान्ताः नासन् । राजा सिंहसेनः सम्पूर्णे राज्ये पुत्रोत्सवस्य घोषणां चकार ।
ये बन्धिनः आसन्, तेभ्यः राजा मुक्तिम् अददात् । राज्ञा पुत्रप्राप्त्याः प्रसन्नतायां सर्वेभ्यः दानं कृतम् । नगरजनाः अपि प्रसन्नाः आसन् । एकादशदिनानि यावत् भगवतः अनन्तनाथस्य जन्मोत्सवः आचरितः ।
घातकी-खण्डे पूर्वविदेहे ऐरावतविजये अरिष्टा-नामिका काचन नगरी आसीत् । तस्याः नगर्याः राजा पद्मरथः आसीत् । पद्मरथः एव भगवतः अनन्तनाथस्य पूर्वजन्म आसीत् । पद्मरथः श्रेष्ठः राजा आसीत् । भूमण्डले पद्मरथस्य सर्वाधिकं वर्चस्वं वर्तते स्म । कोऽपि राजा तं विरुध्य कार्यं न करोति स्म ।
एकदा चित्तरक्षनामकः गुरुः अरिष्टानगरीं समागतः । राजा पद्मरथः स्वयमेव तस्य दर्शनार्थं गतवान् आसीत् । चित्तरक्षस्य गुरोः प्रवचनं श्रुत्वा राजा पद्मरथः विरक्तः अभवत् । प्रवचने जीवनस्य महत्त्वम् इति विषये चित्तरक्षेण गुरुणा जनाः अवबोधिताः । अतः राजा अपि विरक्तो भवितुम् ऐच्छत् ।
"जीवनस्य ध्येयः अत्यन्तं महान् वर्तते । किन्तु भोगवासनायाम् एव जनाः लीनाः सन्ति । अतः कथं ध्येयस्य प्राप्तिर्भविष्यति”? इति राज्ञा पद्मरथेन विचारितम् । अनन्तरं सः गुरोः शरणं गतः । तदानीमेव राजा पद्मरथः पुत्रस्य राज्याभिषेकं कर्तुं निर्णयं कृतवान् । राज्ञा पद्मरथेन स्वस्य राज्यस्य दायित्वम् उत्तराधिकारिणे प्रदत्तम् । अनन्तरं सः साधनां कर्तुं राज्यात् निर्गतवान् ।
राजा पद्मरथः दीक्षानन्तरं घोरतपस्यां चकार । उत्कृष्टसाधनायाः पद्मरथः तीर्थङ्करगोत्रबन्धनं कृतवान् । अन्ते सः आराधकपदं प्राप्य दशमस्वर्गं प्रापत् ।
भगवतः अनन्तनाथस्य जन्मनः एकादश दिनानाम् अवसाने नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनाः उत्सवम् अपि आचरितवन्तः । स्वर्गलोकात् बहवः देवाः भगवतः अनन्तनाथस्य दर्शनार्थं समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते ।
राज्यस्य जनाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणं भवति । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं प्राप्तवान् । अन्ते राज्ञा स्वस्य विचारं कथितवान् यत् – “यावत् सुयशादेवी गर्भवती आसीत्, तावत् अस्माभिः बहुषु युद्धेषु विजयः प्राप्तः । तेषु युद्धेषु एकस्मिन् युद्धे अस्माकं शासनकालस्य सर्वश्रेष्ठः विजयः अभवत् । तदा वयम् अनन्तविजयं प्राप्तवन्तः । अतः अस्य बालकस्य नाम अनन्तकुमारः इति करणीयम् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । तावत् एव अनन्तनाथः इति नाम प्रसिद्धम् अस्ति ।
भगवतः अनन्तनाथस्य बाल्यावस्था मनोरञ्जनेन व्यतीता । समयान्तरे सः तारुण्यं प्रापत् । भगवतः मनसि विरक्तेः भावः आसीत् । किन्तु राज्ञा सिंहसेनेन भगवतः अनन्तनाथस्य अनेकाभिः राजकन्याभिः सह विवाहः कारितः । अनन्तनाथस्य विवाहानन्तरं राज्ञः सिंहसेनस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः सः अनन्तनाथस्य राज्याभिषेकं कृतवान्, अनन्तनाथाय राज्यस्य दायित्वं च प्रदत्तवान् । ततः परं सिंहसेनः दीक्षां स्व्यकरोत् ।
ततः परम् अनन्तनाथः राजा अभवत् । तेन राज्यस्य मातृवत्, विरक्तिपूर्वकं च पालनं कृतम् आसीत् । अनन्तनाथस्य राज्ये अपराधिनः अपि न्यूनाः अभवन् । कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । जनाः अपि आन्तरिकविवादान् विस्मृतवन्तः । प्रजाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । जलकमलवत् भगवान् अनन्तनाथः अपि राज्यस्य सर्वभोगेषु सम्पृक्तः सन् अपि मोहात् मुक्तः आसीत् । अतः तस्य जीवनं कमलम् इव आसीत् ।
राज्ञः अनन्तनाथस्य मनसि अपि राज्यस्य सञ्चालनस्य सन्तोषः आसीत् । जनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बम् इव दृश्यते स्म । राज्ये प्रजाः सुखिन्यः आसन् । यतः अनन्तनाथः सदैव जनानां सौकर्येभ्यः जाग्रतः भवति स्म । जनाः पूर्ववर्तिनः राजानः विस्मृतवन्तः आसन् । जनेभ्यः अनन्तनाथः एव सर्वस्वम् आसीत् ।
भगवान् अनन्तनाथः पञ्चदशलक्षवर्षाणि यावत् राज्यसञ्चालनम् अकरोत् । यदा तस्य दीक्षायाः समयः जातः, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा राज्यस्य दायित्वं प्रदत्तम् । ततः परं सः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः ।
ततः परं भगवान् अनन्तनाथः वार्षिकीदानम् अकरोत् । एकवर्षं यावत् तेन वार्षिकीदानं कृतम् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।
अनन्तनाथः पराक्रमी तेजस्वी च आसीत् । अतः राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । यदा वार्षिकीदानं समाप्तं जातं, तदा चैत्र-मासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ रेवती-नक्षत्रे भगवान् अनन्तनाथः सहस्रजनैः सह अयोध्यानगर्याः सहस्राम्रोद्यानं गतवान् । तत्र देवाः, इन्द्राः चापि समुपस्थिताः आसन् । तस्मिन् दिवसे एव सर्वेषां समक्षं भगवता अनन्तनाथेन दीक्षा अङ्गीकृता ।
तेन सावद्ययोगानां सर्वथा प्रत्याख्यानं कृतम् आसीत् । दीक्षायाः दिवसे सः षष्ठीतपः कृतवान् । दीक्षायाः अपरेद्यपि भगवान् अनन्तनाथः वर्धमानपुरस्य विजयनामकस्य राज्ञः गृहे प्रथमं क्षीरान्नं भुक्तवान् । देवैः जनेभ्यः दानस्य गौरवम् अवबोधितम् ।
दीक्षानन्तरं वर्षत्रयं यावत् भगवान् अनन्तनाथः रहसि साधनां कुर्वन् आसीत् । भगवता अनन्तनाथेन विविधाः तपस्याः, साधनाः च कृताः । सः सर्वत्र विचरन् पुनः अयोध्यानगर्याः सहस्राम्रोद्यानं प्राप्तवान् । अशोकवृक्षस्याधः ध्यानारूढः सन् सः क्षपकश्रेणीमलभत ।
वर्षत्रस्यस्य साधनाकाले भगवान् अनन्तनाथः साधनायाः घातकर्मणां नाशं कृतवान् आसीत् । अयोध्या-नगर्यां चैत्र-मासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ रेवती-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् । तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च तत्र समुपस्थिताः आसन् । सर्वैः मिलित्वा कैवल्यमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।
अनन्तरं भगवता अनन्तनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः अनन्तनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तुम् ऐच्छन् ।
भगवतः अनन्तनाथस्य धर्मशासने धर्मनीतेः प्रभावः चरमसीमायाम् आसीत् । प्रत्येकं राजा धर्मनीतिम् आधृत्य स्वस्य राज्यस्य सञ्चालनं करोति स्म । धर्मोपदेशमाध्यमेन भगवान् अनन्तनाथः तीर्थस्य स्थापनां चकार । तेन सः तीर्थङ्करपदं प्राप्तवान् । तस्मिन् तीर्थे पुरुषोत्तमनामकः चतुर्थः वासुदेवः, सुप्रभनामकः चतुर्थः बलदेवः, मधुनामकः चतुर्थः प्रतिवासुदेवश्च अभवत् । तेषु पुरुषोत्तमः भगवतः अनन्तनाथस्य परमभक्तः आसीत् । भगवतः उपासनया पुरुषोत्तमः विशिष्टं ज्ञानं प्रापत् । सुप्रभः अपि भगवतः अनन्तनाथात् दीक्षाम् अङ्गीकृत्य सिद्धत्वं प्राप्तवान् । सामान्यजनानां मनसि भगवते अनन्तास्था आसीत् ।
यदा भगवान् अनन्तनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा अनन्तनाथेन धार्मिकपरिवारस्य अपि रचना कृता[४]।
अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु पञ्चाशत् गणधरेषु “यश” इत्याख्यः प्रथमः गणधरः आसीत् ।
तीर्थङ्कराः त्रिकालज्ञानिनः भवन्ति । अतः पूर्वमेव तेभ्यः समयस्य ज्ञानं भवति । यदा भगवता अनन्तनाथेन अपि स्वस्य निर्वाणकालः ज्ञातः, तदा सः सप्तसहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धत्वं प्रापत् ।
एकमासस्य अनशनान्ते चैत्र-मासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ पुष्य-नक्षत्रे सम्मेदशिखरे भगवतः अनन्तनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् [५]।
अनन्तनाथेन कौमारावस्थायां सार्धसप्तलक्षवर्षाणां, राज्ये पञ्चदशलक्षवर्षाणां, दीक्षायां सार्धसप्तलक्षवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने त्रिंशल्लक्षं वर्षाणि भुक्तानि आसन् [६]।
भगवतः अनन्तनाथस्य चिह्नं श्येनः अस्ति । श्येनः नामकः कश्चन विहगः वर्तते । श्येनं दृष्ट्वा अन्ये पक्षिणः बिभ्यति । यथा श्येनः लक्ष्यं प्राप्तुं व्याकुलो भवति, तथैव यदि मनुष्यः अपि स्वस्य लक्ष्यं प्रति निष्ठावान् भवेत्, चेत् मनुष्यः स्वस्य जीवनलक्ष्यं प्राप्तुं शक्नोति ।
|
विकिमीडिया कॉमन्स् मध्ये अनन्तनाथः सम्बन्धिताः सञ्चिकाः सन्ति। |