इर्पुजलपातः

इर्पुजलपातः

इर्पुजलपातःकर्णाटकस्य कोडगुमण्डले वीराजपेटेताल्लूकुमध्ये श्रीमङ्गलम् इति नगरस्य कुट्ट इति ग्रामात् ७कि.मी.दूरकानने इर्पु अथवा इरप्पु जलपातः अस्ति । ब्रह्मगिरेः नरिमलेबेट्टतः लक्षमणतीर्थनदी ५०मी. गहने कन्दरे स्तरद्वये पतति । एषः अपि वर्षाकालसुन्दरः जलपातः। किन्तु ग्रीष्मकालेऽपि न शुष्यते । एतत् न केवलं जलपातः किन्तु पुण्य़तीर्थमपि अस्ति इति जनविश्वासः । अस्य जलपातस्य सृष्टेः पावित्र्यस्य च विषये एका कथा श्रूयते । सीतां अन्विष्यन्तौ रामलक्ष्मणौ ब्रह्मगिरिप्रदेशम् आगच्छत:। केरलराज्यस्य सीमाप्रदेशे गमनसमये विनाकारणं लक्ष्मणः कुपितः भवति । अग्रे अहं न गच्छामि इति उक्त्वा तत्रैव उपविशति । मलयालभाषायाम् इरिक्कुन् इत्युक्ते उपविशामि इति । अनेन शब्देन इरप्पु शब्दः आगतः इति लोकवादः । अत्रान्तरे कोपोपशान्तः लक्ष्मणः लज्जया आत्माहुतिं कर्तुम् इच्छन् अग्निं ज्वालयति । तदा अग्रजः श्रीरामः तं सान्त्वयन् "दोषं तव क्षमे” इति वदति । अनेन सन्तुष्टः लक्ष्मणः अग्नेः उपशमनार्थं बाणं प्रयुज्य जलं प्राप्नोति । एवं लक्ष्मणेन निर्मितः निर्झरः श्रीरामेण लक्ष्मणतीर्थम् इति नामाङ्कितः। रामेण सह लक्ष्मणः वानराः च सर्वे तत् जलं पीत्वा सन्तुष्टाः । अतः अद्यापि एषा जलधारा सर्वेषामपि पवित्रं तीर्थं सञ्जातम् । विशेषतः कोडगुजनानां विश्वासः यत् एतत् तीर्थं सर्वेषाम् इष्टार्थं पूरयति इति । प्रतिवर्षं शिवरत्रिपर्वदिने महोत्सवः भवति । तदा तत्र सहस्राधिकाः भक्तजनाः स्नानं कुर्वन्ति ।

इर्पुजलपातस्य मूलतः वीक्षणम्

राजधानीबेङ्गळूरुतः विराजपेटे गन्तुं सर्वकारीयानि असर्वकारीयानि लोकयानानि प्रतिरात्रं सन्ति । २४२कि.मी दूरं ५होरावधौ स्वकीययानेन भाटकयानेन वा गन्तुं शक्नुवन्ति । मडिकेरीपत्तनं प्राप्य भोजनादिकं कृत्वा भाटकयानेन इरप्पु जलपातं गन्तुं शक्नुवन्ति। सर्वे मार्गाः अपि सुगमाः सन्ति । मैसूरुमहानगरतः अपि हुणसूरु पञ्चवळ्ळि, गोणिकोप्प द्वारा इरप्पु प्राप्तुं शक्यते । गोणिकोप्पतः प्रातः सायं च सर्वकारीययानानि सन्ति । अथवा कुट्टग्रामगमनस्य यानेन गत्वा कायिमानि इति स्थले अवतीर्य पादाभ्याम् अपि जलपातं गन्तुं शक्यम् । इरप्पु प्रदेशे भोजनावासर्थं रेसार्ट इति अधुनिकव्यवस्था अस्ति । हैफाल्स्, राम्कार्ड्, इर्पु इत्यादीनि प्रसिद्धानि रेसार्ट् स्थानानि ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]