ऋतुसंहारं महाकविना कालिदासेन विरचितमेकमत्यधिकं प्रसिद्धं काव्यमस्ति। काव्येस्मिन् ग्रीष्मवर्षाशरद्हेमन्तशिशिरवसन्तानां षण्णाम् ऋतूणां सुमनोहरं विस्तृतं वर्णनमस्ति। अस्मिन् काव्ये प्रकृत्याः सौन्दर्यस्य दर्शनं भवति।
प्रकृतेः सर्वावस्थासु परिवर्त्तितानि तानि तानि चित्राण्यत्र प्रस्तुतानि यानि प्रत्यक्षदृष्टानीव हृदयं रञ्जयन्ति । कालिदासीयमेवेदमपि काव्यम् ।
केचिदत्र मल्लिनाथस्य टीकामनालोक्यास्य कालिदासप्रणीतत्वं न स्वीकुर्वन्ति । केचित्पुनरत्र ग्रीष्मं प्रथमं वर्ण्यमानमपि दृष्ट्वा कमपि वितृष्णत्वमिव प्रकाशयन्ति । उभयमपीदं न युक्तम्, यतो मल्लिनाथः सर्वानेव ग्रन्थान् विवृणुयादेवेति कुतस्त्या नियमः ? किञ्च वर्षादौ वसन्तस्य निपातेन तद्वर्णनं प्राथम्यमर्हतीति पञ्चाङ्गे युज्यते, न पुनः काव्ये । काव्ये हि कविरुचिः प्राधान्यं भजते । अतो नानया पध्दत्याऽस्य ग्रन्थस्य कालिदासकृतित्वं प्रतिषेध्दुं शक्यते । वस्तुतोऽयं ग्रन्थः कस्यचिदन्यस्य कालिदासस्य कोटिजिदपरनाम्नः । बहवो हि बभूवुः कालिदासाः शृङ्गारतिलक –ज्योतिर्विदाभरण-पुष्पबाणविलासादिकर्त्तारः । तदयं ग्रन्थोऽपि तदन्यतमस्यैव कस्यापि कृतिः स्वादिति सम्भवदुक्तिम् । कीथ महाशयोऽप्यर्थमिममुक्तवान् । कविताशैली पुनरस्य ग्रन्थस्य सरसा सरला च प्रतिभाति –
ऋतुसंहारस्य सर्वप्रथमं सम्पादनं १७९२ तमे वर्षे कलकत्तायां सर विलियम जोन्सः कृतवान् । १८४० तमे वर्षे पी. वॉन बोलेनद्वारा प्रकाशितं, लातिन-जर्मन-भाषायाम् अनुवादेन सह । १९०६ तमे वर्षे निर्णयसागरप्रसारणे मणिरामस्य संस्कृतव्याख्यानस्य सह अस्य रचनायाः प्रकाशनं कृतम् ।
विकिस्रोतसि एतत्सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते : ऋतुसंहारम् |