कोदारी कोदारी | |
---|---|
ग्रामः | |
देशः | नेपालदेशः |
अञ्चलम् | बागमती |
मण्डलम् | सिन्धुपालचोकमण्डलम् |
Elevation | २,३०० m |
Time zone | UTC+5:45 (नेपालमानकसमयः) |
कोदारी ( ( शृणु) /ˈkoʊdɑːriː/) (हिन्दी: कोदारी, आङ्ग्ल: Kodari) नेपाल-चीन-देशयोः सीम्नि स्थितं कश्चन ग्रामः । सः ग्रामः तिब्बतस्वशिसतप्रदेशेन सह सँल्लग्नः अस्ति । सः ग्रामः नेपालदेशस्य बागमती-अञ्चलस्य सिन्धुपालचोकमण्डले स्थितः अस्ति । तस्य ग्रामस्य एकस्मिन् भागे तिब्बतस्वशासिकप्रदेशस्य न्यालम-प्रदेशस्य झाँगमु-पुरम् अस्ति [१] ।
प्राचीनकाले एषः ग्रामः हिमालयं लङ्घयितुं मार्गग्रामः आसीत् । नेवारी-व्यापारिणः कोदारी-तः उत्तरं प्रति गत्वा कुटी-पुरस्य समीपस्थात् भूत्वा वामतः पूर्वदिशं प्रति तिब्बत-प्रदेशस्य पर्वतमालां लङ्घयित्वा ल्हासा-नगरं गच्छन्ति स्म ।
चीन-देशः 115 किलोमीटर (71 मील) लम्बमानः काठमांडू-कोठारी-महामार्गः १९६३-६७ मध्ये निर्मितः । नेपालदेशे सः महामार्गः 'अरानिको हाइवे' इति, चीन-देशे सः महामार्ग राष्ट्रियमहामार्गः ३१८ इति प्रसिद्धः । २०११ तमे वर्षे नेपाल-देशः एनं महामार्गं '६ लेन' कर्तुं योजनाम् अकरोत् [२] ।
चीन-देशे २००८ तमे वर्षे काचित् रेल-परियोजना अपि आरब्धा । तस्याः परियोजनायाः अनुसारं नेपाल-चीन-देशयोः सीमायां स्थितं झांगमु-नगरं ल्हासा-नगरेण सह योजयिष्यति । सा योजना 1,956 किलोमीटर (1,215 मील) लम्बमानस्य क्विंगहाइ-तिब्बत-रेल-मार्गस्य विस्तारकी योजना [२][३][४] ।
कोदारी-समुद्रतलात् 2,515 मीटर (8,251 फ़ुट) मीटर उन्नते स्थितः ग्राम एषः [५] । कोदारी-ग्रामः काठमाण्डू-नगरात् 114 किलोमीटर (71 मील) दूरे अस्ति । सामान्यायाम् ऋतौ मार्गस्य उभयतः स्थिता हिमालयपर्वतमाला स्पष्टताय द्रष्टुं शक्यते । झांगमु-नगरात् न्यालम-प्रदेशः 33 किलोमीटर (21 मील) दूरे अस्त । पर्वतानाम् औन्नत्यम् 2,300 मीटर (7,500 फ़ुट) से 3,750 मीटर (12,300 फ़ुट) यावत् अस्ति [६] ।