गुजरात साहित्य अकादमी | |
---|---|
गुजरात-साहित्य-अकादमी-संस्थायाः चिह्नम् | |
ध्येयवाक्यम् | संस्कृत: શબ્દાખ્યજ્યોતિ પ્રકાશો |
संस्थापनम् | 24 1981 |
प्रकारः | साहित्यिकसंस्था |
उद्देश्यम् | साहित्यिकस्य, भाषायाः च विकासः |
मुख्यकार्यालयाः | अभिलेखागार भवन, सेक्टर-१७, गांधीनगर, गुजरातराज्यं, भारतम् |
अवस्थितिः | २३°१३′२८″उत्तरदिक् ७२°३९′१६″पूर्वदिक् / 23.224431°उत्तरदिक् 72.654421°पूर्वदिक् |
अध्यक्षः | विष्णु पण्ड्या |
महामात्रः | डॉ. हिम्मतभाई भालोडिया |
मुख्यशाखा | शब्दसृष्टिः |
अनुमोदनम् | रमतगमत, युवा अने सांस्कृतिक-मन्त्रालयः, गुजरातसर्वकारः |
जालस्थानम् | sahityaacademy.gujarat.gov.in |
गुजरात साहित्य अकादमी इति काचित् गुजरातसर्वकार-सञ्चालिता संस्था वर्तते। गुजरातराज्ये प्रयुज्यमानानां भाषाणां, तासां साहित्यिकविकासस्य च कृते समर्पिता एषा संस्था वर्तते। तस्याः स्थापना १९८१ तमवर्षे जाता आसीत्। एषा संस्था राज्यस्य मुख्यभाषया गुजरातीभाषया सह संस्कृतस्य, हिन्द्याः, कच्छीभाषायाः, सिन्धीभाषायाः, उर्दू-भाषायाः च संवर्धनाय कार्यं करोति। सद्यः विष्णु पण्ड्या-महोदयः गुजरात-साहित्य-अकादमी-संस्थायाः अध्यक्षः वर्तते।[१][२]
एतस्याः संस्थायाः स्थापना गुजरातसर्वकारद्वारा २४ सप्टेम्बर १९८१ दिनाङ्के जाता आसीत्। संस्थायाः उद्घाटनकार्यक्रमः १७ जून १९८२ दिनाङ्के अध्यक्षस्य, उपाध्यक्षस्य, अन्यसभ्यानां नियुक्तिना सह जातः आसीत्।[३][४]
गुजरातराज्ये संस्कारप्रवृत्तयः अधिकव्यापकतया अन्तर्वर्ति-प्रदेशं यावत् प्रापयितुं गुजरातसर्वकारः प्रतिबद्धतां प्रदर्शयति। गुजरातसाहित्य-अकादमी-संस्याथाद्वारा, पञ्च अन्यभाषाणाम् अकादमी-द्वारा च साहित्यप्रचारस्य कार्यं जायमानम् अस्ति। २०१५-१६ वर्षे राज्यसर्वकारद्वारा गुजरात-साहित्य-अकादमी-संस्थायाः सत्तामण्डलस्य नवरचना जाता अस्ति। ततः सप्त सभ्यानां कार्यवाहक-समितेः, एकदाश सभ्यानां च मार्गदर्शक-मण्डलस्य नियुक्तिः जाता अस्ति।[५]
एतस्याः संस्थायाः मुख्याः प्रवृत्तयः निम्नानुसारं सन्ति।[३]
गुजरातसाहित्य-अकादमी-संस्था अन्यासां पञ्च साहित्यिक-अकादमी-संस्थानां कार्यभारम् अपि वहते। यत्र संस्कृतभाषायै संस्कृत-साहित्य-अकादमी, हिन्दीभाषायै हिन्दी-साहित्य-अकादमी, सिन्धीभाषायै सिन्धी-साहित्य-अकादमी, कच्छीभाषायै कच्छीसाहित्य-अकादमी, उर्दूभाषायै उर्दूसाहित्य-अकादमी च अन्तर्भवन्ति। महामात्रः (रजीस्ट्रार) सर्वासां पञ्चानाम् अकादमी-संस्थानां प्रशासनिकः प्रमुखः भवति। लोकसाहित्याय, संस्कृतभाषायै, संस्कृतसाहित्याय, अन्यभाषाभ्यः च त्रिस्रः स्थायि-समितयः रचिताः सन्ति। प्रत्येकं समितौ पञ्च सर्वकारीयाः सभ्याः भवन्ति, तैः सह अन्ये पञ्च सम्बद्धक्षेत्रस्य सभ्याः भवन्ति। एवम् आहत्य दश सदस्याः भवन्ति।[३]
अध्यक्षः, उपाध्यक्षः, महामात्रः च एतस्याः संस्थायाः दैनिक-कार्याणां निर्वणहं कुर्वन्ति। एतस्याः संस्थायाः सम्पूर्णं नियन्त्रणं सामान्यसभाद्वारा, कार्यकारि-परिषदा च भवति। सामान्यसभायाः कार्यकालः पञ्च वर्षाणां भवति। सामान्यसभा आहत्य ४१ सभ्यैः निर्मिता भवति, यत्र गुजरातराज्यस्य शिक्षा-आयुक्तः (कमिशनर), शिक्षण-विभागस्य आर्थिक-परामर्शकः, संस्थायाः महामात्रः, गुजरातराज्यस्य उच्चशिक्षा-आयुक्तः, गुजरातीभाषायाः निर्देशकः, राज्यसर्वकारद्वारा चिताः साहित्यिकसमुदायस्य ९ सभ्याः, गुजरात-विश्वविद्यालयस्य ८ सभ्याः, सामान्यसभाद्वारा चितौ द्वौ सभ्यौ, गुजराती-लेखकैः नियुक्तया समित्या चिताः ९ सभ्याः, गुजरातगौरवपुरस्कारद्वारा सम्मानितौ द्वौ सदस्यौ च अन्तर्भवन्ति। कार्यकारि-परिषद् एतस्याः संस्थायाः अध्यक्षस्य, उपाध्यक्षस्य, महामात्रस्य, गुजरातशिक्षा-आयुक्तस्य, शिक्षणविभागस्य आर्थिक-परामर्शकस्य च सम्मिता दश सभ्यानां परिषद् भवति, यत्र पञ्च सभ्याः नियुक्ताः भवन्ति। [६]
निम्नलिखिताः जानाः अध्यक्षपदारूढाः जाताः :[७]
क्रमः | नाम | नियुक्तिः | पदमुक्तः |
---|---|---|---|
१ | मोहम्मद मांकड | १७ जून १९८२ | २६ एप्रिल १९८४ |
२ | कुलिनचंद्र याज्ञिक | २७ एप्रिल १९८४ | २७ डिसेम्बर १९८४ |
३ | भूपत वडोदरीया | २८ डिसेम्बर १९८४ | १३ मार्च १९८६ |
४ | रमणलाल जोषी | १४ मार्च १९८६ | ७ जून १९८७ |
५ | हसमुख पटेल (शिक्षणमन्त्री) | ८ जून १९८७ | १० डिसेम्बर १९८८ |
६ | अरविंद संघवी (शिक्षणमन्त्री) | ११ डिसेम्बर १९८८ | १२ डिसेम्बर १९८९ |
७ | हसमुख पटेल (शिक्षणमन्त्री) | १३ डिसेम्बर १९८९ | ११ मार्च १९९० |
८ | करसनदास सोनेरी (शिक्षणमन्त्री) | १२ मार्च १९९० | ११ ओगस्ट १९९१ |
९ | मनुभाई पंचोळी | १२ ओगस्ट १९९१ | १९९८ |
१० | भोळाभाई पटेल | ५ ओक्टोबर १९९८ | २००३ |
११ | सचिवः : रमतगमत, युवा अने सांस्कृतिक मंत्रालय, गुजरातसर्वकारः | २००३ | ६ मे २०१५ |
१२ | भाग्येश जहा | ७ मे २०१५[८] | १३ मे २०१७ |
१३ | विष्णु पंड्या | १३ मे २०१७[८][९] | वर्तमानः |
निम्नसूचिताः जनाः एतस्याः संस्थायाः महामात्रपदे (रजीस्ट्रार) सेवा प्रदत्ता :[७][४]
क्रमः | महामात्रः | नियुक्तिः | पदमुक्त |
---|---|---|---|
१ | हसु याज्ञिक | २५ फेब्रुआरी १९८२ | २९ फेब्रुआरी १९९६ |
२ | डंकेश ओझा | १ मे १९९७ | १६ मार्च १९९८ |
३ | दलपत पढियार | १२ जून १९९८ | ९ मे २००० |
४ | के.एम.पंड्या | १० मे २००० | ३ सप्टेम्बर २००३ |
५ | वी.वी.पंडित | ४ सप्टेम्बर २००३ | ३ सप्टेम्बर २००५ |
६ | किरीट दूधात | २२ जान्युआरी २००८ (अन्यविभागतः) | ॽ |
७ | हर्षद त्रिवेदी | ५ डिसेम्बर २००९ | २७ जुलाई २०१४ |
८ | चेतन शुक्ला | २८ डिसेम्बर २०१४ | १७ ओगस्ट २०१५ |
९ | मनोज ओझा | १८ ओगस्ट २०१५ | ॽ |
१० | अजयसिंह चौहाण | डिसेम्बर २०१७ | मे २०२० |
११ | डॉ. हिम्मतभाई भालोडिया | जून २०२० | वर्तमानः |
एतस्य प्रकल्पस्य आरम्भः २०१२ तमवर्षे जातः आसीत्। गुजरातराज्यस्य तत्कालीनः मुख्यमन्त्री, वर्तमानः प्रधानमन्त्री च श्रीनरेन्द्रमोदी संस्कृताय अपि आधुनिकस्पर्धायां स्थायि-साहाय्यं प्रदातुम् एतस्य प्रकल्पस्य आरम्भाय प्रेरणाम् अकरोत्। अतः मुख्यमन्त्रिणः प्रेरणानुसारं २०१२ तमवर्षे संस्कृत-साहित्य-अकादमी-संस्था स्वामिविवेकानन्दस्य सार्धशत-जन्मोत्सवावसरे संस्कृतस्य स्थायि-विकासाय एनं प्रकल्पम् अपि संस्कृतभारत्याः गुजरातकेन्द्रे आरब्धवती। संस्कृसाहित्यनिर्माणम्, अन्तर्जालद्वारा तत्प्रसारणं च इत्यस्य प्रकल्पस्य आङ्ग्लं नाम Sanskrit Corpus Building and Sharing through Internet Medium इति, गुर्जर्नाम સંસ્કૃત સાહિત્યનું નિર્માણ અને તેનું અન્તર્જાલ દ્વારા પ્રસારણ इति च अस्ति।
विशालप्रमाणे संस्कृते आधुनिकस्य, शास्त्रीयस्य च साहित्यस्य निर्माणं भवेत्, तस्य साहित्यस्य अङ्कीयतया, निःशुल्कतया च सर्वेभ्यः उपलब्धिः भवेत् इति एतस्य प्रकल्पस्य उद्देशः अ्सति। "संस्कृते सम्भाषणस्य आन्दोलनवत् संस्कृते आधुनिकलेखानां निर्माणम् अपि जन-आन्दोलनं भवेत् इत्यस्य कृते सर्वे संस्कृतजनाः अपि योगदानं कृत्वा संस्कृतम् अङ्कीयक्षेत्रे आत्मिनिर्भरं कुर्यात् इत्यपि अस्य अपरः उद्देशः।"
संस्कृतक्षेत्रस्य समस्या
उक्तानां समस्यानां समाधानाय एव स्थायि-प्रकल्पोऽयम् आरब्धः अस्ति। एतस्य प्रकल्पस्य अन्तर्गततया एतावता A4 आकारस्य ३५,००० पृष्ठानि आरोपितानि सन्ति।
|com/booksॽid=
ignored (help)
|access-date=
ignored (help); Text "htm" ignored (help); Text "in" ignored (help); Text "gujarat" ignored (help); Text "gov" ignored (help)[नष्टसम्पर्कः]
|access-date=
ignored (help); Text "indiatimes" ignored (help); Text "com/city/ahmedabad/vishnu-pandya-replaces-jha-at-sahitya-akademi/articleshow/58651041" ignored (help)
|access-date=
ignored (help); Text "com/2017/05/12/vishnu-pandya-appointed-chairman-of-gujarat-sahitya-akademi/" ignored (help)[नष्टसम्पर्कः]