काश्मीरग्रन्थतो ज्ञायते यद् गोदावर्यास्तीरे प्रतिष्ठाननगरं गुणाढयस्य अभिजनः । गुणाढ्यः (Gunadya) सातवाहनस्यातीव प्रीतिपात्रमासीत् । कदाचिद् महिष्या ‘मा उदकैरितिं जलप्रतिषेधार्थकं वाक्यं सन्धिं कृत्वा ‘मोदकैरि’त्युक्तम् । संस्कृतानभिज्ञश्च राजा मोदकैर्मधुरभेदैरिति ज्ञातवान् । वस्तुवृत्ते ज्ञाते सति राजा लज्जितो जातः । तेनैव कारणेन राज्ञा संस्कृतपठने रुचिः प्रकटीकृता । गुणाढ्यस्तं षडभिर्वर्षैः संस्कृतमध्यापयितुं शाक्यमित्युक्तवान् । तत्रैव स्थितः कातंत्रव्याकरणप्रणेता शर्ववर्मा षडभिरेव मासैस्तथाकर्तु प्रतिज्ञातवान् । गुणाढ्यस्तस्य तथाविधामुक्तिमाकर्ण्य प्रोवाच यद्यपि शर्ववर्मा षडभिमासेः संस्कृतं पाठ्येत्तदाऽहं ततः प्रभृति संस्कृत –प्राकृतादिकाः प्रसिध्दा भाषाः कदापि न व्यवहारेयंम् । पणबन्धेऽस्मिन् शर्ववर्मणा पराजितो गुणाढयः क्वचन विन्ध्यवनमध्ये स्थितो भूतभाषामयीं बृहत्कथां सप्तलक्षश्लोकात्मिकां प्रणीतवान् । तच्छिष्यास्तं बृहन्तं ग्रन्थं राज्ञः समीपं समानीतवन्तः किन्तु राजा तं नादृतवान् । राजानादरखिन्नो गुणाढ्यः स्वग्रन्थमारण्यकेभ्यः श्रावयित्वा क्रमशस्तमग्नौ क्षेप्तुं प्रारेभे । तदनन्तरं तद्गुणानाकर्ण्य राजा तदग्रन्थसप्तमांशं लक्षश्लोकात्मकं प्रयासेन रक्षितुं शशाक । स एवायं बृहत्कथाग्रन्थः । इयमेव बृहत्कथाया उत्पत्तिकया।
नेपालदेशीयो बुध्दस्वामी तु गुणाढ्यं मथुरावासिनमवन्तिनृपतेर्नृपमदनस्य चाश्रितं वर्णयति । अनयोः मतयोः काश्मीरमतं सम्यक् । बुध्दस्वामी तु गुणाढ्यं नेपालसमीपवर्तिनं साधयितुमेव स्वमाग्रहं तथा प्रकाशितवान्।
गुणाढ्यः बृहत्कथा इत्येतं लक्षश्लोकैः युक्तं ग्रन्थं पैशाचभाषया रचितवान् अस्ति । अयं प्रतिष्ठानाधीशस्य सातवाहनस्य सभायाम् आसीत्, सातवाहनः क्रि. श. प्रथमशतमाने आसीत् इति च उल्लेखः सोमदेवभट्टेन रचितस्य कथासरित्सागरस्य पीठिकायाम् एवम् उल्लिखितमस्ति -
एतेन लिखितस्य 'बृहत्कथा'ग्रन्थस्य संस्कृतानुवादः 'बृहत्कथामञ्जरी'नाम्ना क्षेमेन्द्रेण कृतः वर्तते ।