भारतस्य स्वतन्त्रतायाः चर्चायां जलियावाला हत्याकाण्डः-हत्याकाण्डस्य उल्लेखः अनिवार्यः । भारतस्य कलङ्कः एषः काण्डः भारतीयजनानां हृदः व्रणः एव । सः व्रणः अद्यापि भारतीयान् पीडयति । तस्मिन् हत्याकाण्डे एकसहस्रं (१०००) जनाः मृताः इति आङ्ग्लसर्वकारेण उद्घोषितमासीत् । परन्तु द्विसहस्राधिकाः जनाः मृताः इति जनानां प्रत्यक्षानुभवः । जनरल डायर-नामकः आङ्ग्लाधिकारी जलियावाला हत्याकाण्डः-हत्याकाण्डस्य मुख्यदोषी । सः एव अहिंसकसम्मेलनं कुर्वतां जनसामान्यानाम् उपरि गोलिकाप्रहाराय आरक्षकान् आदिशत् । सैनिकैः चालिताः गोलिकाः जनानां शरीरं विभेद्य अग्रेसरन्त्यः पृष्ठभागे स्थितायां भित्तिकायां स्तम्भिताः (stopped) । अद्यापि भित्तिकासु गोलिकाः दृश्यन्ते । आङ्ग्लानां गोलिकाभ्यः मरणात् तु कूपे पतित्वा मरणं श्रेयस्करम् इति विचिन्त्य बहवः जनाः तत्रस्थे कूपे पतित्वा प्राणत्यागम् अकुर्वन् । बहुवर्षेभ्यः अनन्तरं जलियावाला बाग-स्थलस्य दर्शनं कर्तुं गताः केचन राष्ट्रभक्ताः तं कूपं दृष्ट्वा एतावन्तः भावपूर्णाः अभूवन् यत्, ते स्वयम् अपि तस्मिन् कूपे पतित्वा प्राणाहुतिम् अकुर्वन् । अनेन ज्ञायते यत्, तत् स्थलं भारतस्य इतिहासे, भारतीयानां मनसि कियत् महत्वपूर्णमस्ति । अधुना तु तस्य कूपस्योपरि लोहेनाच्छादिता जालिका निर्मापिता सर्वकारेण । परन्तु तेन काण्डेन जनमानसि जातस्य व्रणस्य औषधम् अद्यापि न केनापि वैद्येन प्राप्तम् इत खेदः ।