नमिनाथः | |
---|---|
एकविंशतितमः जैनतीर्थङ्करः | |
नमिनाथस्य प्रतिमा | |
विवरणम् | |
परिवारः | |
पिता | विजयः |
माता | वप्रा |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | मिथिला |
निर्वाणम् | सम्मेदशिखरम् |
लक्षणम् | |
वर्णः | सुवर्णः |
चिह्नम् | नीलकमलम् |
औन्नत्यम् | १५ धनुर्मात्रात्मकम् (४५ मीटर्) |
आयुः | १०,००० वर्षाणि |
शासकदेवः | |
यक्षः | भृकुटी |
यक्षिणी | गान्धारी |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
नमिनाथः ( ( शृणु) /ˈnəmɪnɑːθəhə/) (हिन्दी: नमिनाथ,आङ्ग्ल: Naminatha) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु एकविंशतितमः तीर्थङ्करः अस्ति । भगवतः नमिनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं नीलकमलम् अस्ति ।
कौमारावस्थायां नमिनाथस्य शरीरस्य औन्नत्यं पञ्चदश(१५)धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “भ्रकुटी” इत्याख्यः यक्षः, “गान्धारी” इत्याख्या यक्षिणी च आसीत् । भगवान् नमिनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयश्चासीत् ।
देवलोकस्य आयुष्यं समाप्य मिथिला-नगर्याम् आषाढ-मासस्य कृष्णपक्षस्य अष्टम्यां तिथौ अश्विनी-नक्षत्रे भगवान् नमिनाथः अवतीर्णः ।
नमिनाथस्य पिता विजयः, माता च वप्रा आसीत् । विजयः मिथिला-नगर्याः राजा आसीत् । राजा विजयः राज्यसञ्चालने श्रेष्ठः आसीत् । एकदा आश्विन-मासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ अश्विनी-नक्षत्रे रात्रौ वप्रया तीर्थङ्करत्वसूचकाः चतुर्दश स्वप्नाः दृष्टाः । द्वौ अतीव प्रसन्नौ अभवताम् । तौ स्वप्नानां फलं न जानीतः स्म । तथापि स्वप्नान् दृष्ट्वा राज्ञी प्रफुल्लिता जाता ।
आगामिदिवसे राजा स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रिभिः चतुर्दशस्वप्नानां फलम् उक्तम् यत् – “एते स्वप्नाः साधारणाः न सन्ति । कस्यचित् तीर्थङ्करस्य जन्म भविष्यति” इति स्वप्नाः सूचयन्ति । स्वप्नानां फलादेशं श्रुत्वा राजा, राज्ञी चेत्येतौ द्वौ प्रसन्नौ अभवताम् । राज्ये आनन्दस्य वातावरणम् अभवत् । शुभसमाचारं प्राप्य राज्ञा सम्पूर्णे राज्ये दानं कृतम् ।
नवमासानन्तरं भगवतः नमिनाथस्य जन्म अभवत् । प्रसवः अपि पीडारहितः अभवत् । यदा प्रसवः अभवत्, तदैव इन्द्राः आगतवन्तः आसन् । तस्मिन् समये एव इन्द्राः नवजातशिशुं सुमेरुपर्वते पाण्डुकवनं नीतवन्तः । तत्र तैः इन्द्रैः शिशोः उपरि जलाभिषेकः कृतः । पुनश्च इन्द्राः तं शिशुं मातुः क्रोडे स्थापितवन्तः ।
यदा राज्ञः पुत्रजन्मनः सन्देशः प्राप्तः, तदा पुत्रप्राप्त्याः आनन्दितेन राज्ञा राज्ये पुत्रोत्सवस्य आयोजनं कृतम् । तस्मिन् उत्सवे राजा जनेभ्यः दानं करोति स्म । राज्ये एकादशदिवसात्मकः उत्सवः आचरितः । पुत्रोत्सवे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः चापि समुपस्थिताः आसन् । देवैः, इन्द्रैः च बालकाय आशीर्वादाः प्रदत्ताः ।
जम्बूद्वीपस्य पश्चिममहाविदेहे भरतविजये कौशाम्बी-नामिका नगरी आसीत् । कौशाम्बी-नगर्याः कश्चन सिद्धार्थः नामकः राजा आसीत् । तस्य राज्ये जनेभ्यः उत्तमा व्यवस्था आसीत् । पारस्परिकाः विग्रहाः अपि समाप्ताः अभवन् । राज्ये कस्यापि वस्तुनः अभावः नासीत् । सर्वे नागरिकाः सन्तुष्टाः आसन् ।
एकदा सिद्धार्थः संसारस्य नश्वरतायाः चिन्तनं कुर्वन् आसीत् । संसारस्य विषये विचिन्त्य सः विरक्तः जातः । सिद्धार्थस्य मनसि वैराग्यस्य भावना जागृता । तस्मिन् दिने एव सिद्धार्थेन श्रुतं यत् – “नन्दन-नामकः कश्चन मुनिः नगरस्य उद्यानं प्राप्तवान्” । सिद्धार्थः त्वरितमेव मुनेः दर्शनं कर्तुं प्रस्थितवान् । मुनेः दर्शनं कृत्वा सिद्धार्थस्य मनसि दीक्षाम् अङ्गीकर्तुं विचारः आगतः ।
सिद्धार्थेन उत्तराधिकारिणः राज्याभिषेकं कृत्वा, तस्मै राज्यस्य दायित्वं प्रदत्तम् आसीत् । अनन्तरं सिद्धार्थः नन्दनमुनेः दीक्षाम् अङ्गीकृतवान् । ततः परं सिद्धार्थेन विविधाः तपस्याः, साधनाः च कृता । सः रुग्णानां साधूनां सेवां कुर्वन् आसीत् । सञ्चितकर्मणां महानिर्जरया तीर्थङ्करगोत्रस्य बन्धनं कृतम् । अन्ते तेन अनशनपूर्वकं मोक्षः प्राप्तः । सः स्वर्गलोकस्य अपराजित-नामके महाविमाने महर्धिकः देवः अभवत् ।
भगवतः नमिनाथस्य जन्मनः एकादशदिनानाम् अनन्तरं राज्ञा विजयेन नामकरणसंस्कारविधिः आयोजितः । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । स्वर्गलोकात् अपि बहवः देवाः समागताः । चतुष्षष्टिः इन्द्रैः, लोकान्तिकदेवैः चापि उत्सवः आचरितः आसीत् । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते । राज्यस्य नागरिकाः अपि प्रसन्नाः आसन् ।
नामकरणोत्सवे बालकस्य नामकरणं क्रियते । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । वप्रा बालकं नीत्वा आयोजितं स्थलं प्राप्तवती । बालकं दृष्ट्वा जनाः स्तब्धाः अभवन् । बालकस्य शरीरे महत्तेजः दृश्यते स्म । नामकरणाय सर्वैः स्वमतानि प्रदत्तानि आसन् ।
गर्भकालस्य घटनां विचार्य राज्ञा स्वस्य विचारः उक्तः यत् – “अस्माकं राज्यमिदानीं निष्कण्टकं वर्तते । किन्तु नवमासेभ्यः प्राक् अस्माकं राज्यं विपत्तिग्रस्तम् आसीत् । भवन्तः सर्वे जानन्ति यत् – अस्माकं राज्यं शत्रुभिः परिगृहीतम् आसीत् । ते शत्रवः साधारणाः नासन् । तेषां सैन्यबलस्य अपेक्षया अस्माकं सैन्यबलं न्यूनम् आसीत् । तदा अहं चिन्ताग्रस्तः आसम् । जनानां रक्षणं कथं करणीयम् ? इति मनसि चिन्ता आसीत् ।
अहं किमपि विचारयितुम् असमर्थः आसम् । तस्मिन् समये यदा वप्रादेव्या शत्रुसेनायां दृष्टिपातः कृतः, तदैव शत्रुनरेशस्य हृदयं परिवर्तितं जातम् । शत्रुराज्ञा स्वस्या सेना तत्रैव स्तब्धा । अनन्तरं शत्रुराजा तं युद्धं स्थगितवान् । साम्प्रतं तद्राज्यं मिथिलायाः मित्रराज्यम् अस्ति । इतः परं सः राजा पितृव्यः इव मे सम्माननं करोति । अयं प्रभावः गर्भस्थशिशोः एव आसीत् । अन्यथा अस्माकं पराजयः निश्चितः एव आसीत् । गर्भप्रभावादेव शत्रुराजा मैत्रीभावयुतः जातः । अतः अस्य बालकस्य नाम नमिकुमारः इति करणीयम्” । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । ततः आरभ्य एव नमिनाथः इति नाम्ना ख्यातः अस्ति ।
भगवतः नमिनाथस्य बाल्यावस्था क्रीडायां व्यतीता । शनैः शनैः भगवान् कल्पवृक्षः इव विकसति स्म । यदा नमिकुमारः तारुण्यावस्थां प्राविशत्, तदा तस्य शरीरात् तेजः प्रस्फुटितम् । तस्य शरीरं रश्मिपुञ्जः इव दृश्यते स्म । भगवतः मनसि विरक्तेः भावः आसीत् । किन्तु राज्ञा विजयेन भगवतः नमिनाथस्य अनेकाभिः सुयोग्याभिः आर्यकुलस्य राजकन्याभिः सह विवाहः कारितः । नमिनाथस्य सुखानाम् उपभोगं कुर्वन् आसीत् ।
नमिनाथस्य विवाहानन्तरं राज्ञः विजयस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः सः योग्यावसरे नमिनाथस्य राज्याभिषेकं कृतवान्, नमिनाथाय राज्यस्य दायित्वं च प्रदत्तवान् । ततः परं विजयः दीक्षां प्रापत् । सः साधनां कर्तुं निर्गतवान् ।
नमिनाथः यदा राजा अभवत्, तावदेव सः श्रेष्ठतया शासनं करोति स्म । नमिनाथः अद्भूतरीत्या राज्यसञ्चालनं कुर्वन् आसीत् । राज्ये कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । तेन कारणेन नमिनाथस्य राज्ये अपराधिनः अपि अल्पसङ्ख्यकाः आसन् । जनाः अपि आन्तरिकविवादान् स्वयम् एव निवारयन्ति स्म । कस्यचिदपि जनस्य दुःखं जनाः स्वदुःखं मन्यन्ते स्म । जनेषु स्वार्थभावना अपि प्रायशः लुप्ता जाता । राज्यस्य प्रत्येकः जनः राज्यस्य सम्प्रवर्धनाय, व्यवस्थायै च दायित्वं वहति स्म ।
जनेषु सम्पत्तेः, धनस्य च उन्मादः एव नासीत् । भगवतः नमिनाथस्य राज्ये सामूहिकजीवनस्य परम्परा आरब्धा । जनाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । राजा नमिनाथः अपि राज्यस्य सञ्चालनेन सन्तुष्टः आसीत् । राज्ञः मनसि सन्तोषः आसीत् । जनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बम् इव प्रतिभाति स्म । राज्ये जनाः सुखिनः आसन् ।
भगवता नमिनाथेन पञ्चसहस्रं वर्षाणि यावत् राज्यस्य सञ्चालनं कृतम् आसीत् । एकदा नमिनाथः अटितुमुपवनं गतवान् । तत्र द्वौ देवौ आगतौ । राजा नमिनाथः देवाभ्याम् आगमनस्य कारणं पृष्टवान् । तदा देवाभ्याम् उक्तं यत् – “जम्बूद्वीपस्य विदेहक्षेत्रे सुसीमा-नगर्याम् अपराजित-नामकः मुनिः अस्ति । सः सद्यः एव तीर्थङ्करपदं प्रापत् । यदा आवाभ्यां पृष्टं यत् - को अग्रिमः तीर्थङ्करः भविष्यति ? तदा तेन भवतः नाम उक्तम् । अतः आवां भवते सूचनां प्रदातुम् आगवन्तौ । देवयोः वचांसि श्रुत्वा राजा नमिनाथः विरक्तः जातः । यदा नमिनाथः दीक्षायाः कालं ज्ञातवान्, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तम् ।
तस्य मनसि वैराग्यस्य भावना उद्भूता । अनन्तरं परम्परानुसारं सः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः । ततः परं भगवता नमिनाथेन वार्षिकीदानं कृतम् । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।
राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । जनाः अपि दीक्षामङ्गीकर्तुं विचारितवन्तः । यतः राज्ञः स्वभावः शान्तः, प्रभावी च आसीत् । यदा वार्षिकीदानं पूर्णमभवत्, तदा ज्येष्ठ-मासस्य कृष्णपक्षस्य नवम्यां तिथौ अश्विनी-नक्षत्रे भगवान् नमिनाथः सहस्रजनैः सह मिथिला-नगरस्य सहस्राम्रोद्यानं प्राप्तवान् । उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षे भगवान् नमिनाथः दीक्षाम् अङ्गीकृतवान् । दीक्षायाः दिवसे भगवान् षष्ठ्याः तपः कृतवान् ।
अपरे दिने भगवान् नमिनाथः वीरपुरस्य राज्ञः दत्तस्य गृहे प्रथमं क्षीराहारं गृहीतवान् । दीक्षानन्तरं नवमासाः यावत् भगवान् नमिनाथः रहसि आसीत् । भगवता नमिनाथेन नवमासान् यावत् विविधाः तपस्याः, साधनाः च कृताः । सः पुनः मिथिला-नगर्याः सहस्राम्रोद्यानं प्राप्तवान् । तत्र बकुलवृक्षस्याधः तेन तपस्या कृता ।
मिथिला-नगर्यां मार्गशीर्ष-मासस्य कृष्णपक्षस्य एकादश्यां तिथौ अश्विनी-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् [२]। तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम् । देवाः, इन्द्राः, नगरजनाः च कैवल्यमहोत्सवम् आचरितवन्तः ।
ततः परं भगवता नमिनाथेन प्रथमं प्रवचनं कृतम् । सहस्राधिकाः जनाः भगवतः नमिनाथस्य प्रवचनं श्रोतुं सहस्राम्रोद्यानं प्राप्तवन्तः । प्रवचने भगगता नमिनाथेन ’आगार’, ’अणगार’ च इत्येतयोः व्याख्या कृता । भगवतः प्रवचनं श्रुत्वा बहवः जनाः विरक्ताः अभवन् । जनाः दीक्षां स्वीकर्तुन् ऐच्छन् । बहवः जनाः धर्मस्य उपासनायाः नियमान् अङ्गीकृतवन्तः ।
यदा भगवान् नमिनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा नमिनाथेन धार्मिकपरिवारस्य अपि रचना कृता[३]।
अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु त्रिचत्वारिंशत् गणधरेषु “शुभस्वामी” इत्याख्यः प्रथमः गणधरः आसीत् ।
दीर्घकालं यावत् भगवान् नमिनाथः धर्मसङ्घस्य प्रभावनां कुर्वन् आर्यजनपदि विचरति स्म । तीर्थङ्कराः त्रिकालज्ञानिनः भवन्ति । अतः पूर्वमेव तेभ्यः निर्वाणसमयस्य ज्ञानं भवति । यदा भगवता नमिनाथः अपि स्वस्य निर्वाणकालं ज्ञातवान्, तदा सः अनैकैः साधुभिः सह सम्मेदशिखरं गतवान् । तत्र नमिनाथेन एकमासं यावत् अनशनं कृतम् । सः एकमासं यावत् पुनः तपस्यां, साधनां च कृतवान् । एकमासानन्तरं तेन शैलेशीपदं प्राप्तम् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः जातः । अनन्तरं तेन सिद्धत्वं प्राप्तम् आसीत् ।
एकमासस्य अनशनान्ते वैशाख-मासस्य कृष्णपक्षस्य दशम्यां तिथौ अश्विनी-नक्षत्रे सम्मेदशिखरे भगवतः नमिनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् [४]।
नमिनाथेन कौमारावस्थायां पञ्चविंशतिशतस्य वर्षाणां, राज्ये पञ्चसहस्रस्य वर्षाणां, दीक्षायां पञ्चविंशतिशतस्य वर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने एकलक्षं वर्षाणि भुक्तानि आसन् [५]।
मुनिसुव्रतनाथस्य निर्वाणानन्तरं षड्लक्षवर्षाणाम् अनन्तरं नमिनाथस्य मोक्षः अभवत् ।
|
विकिमीडिया कॉमन्स् मध्ये नमिनाथः सम्बन्धिताः सञ्चिकाः सन्ति। |