कर्णाटकस्य कविरत्नत्रयेषु पोन्नः द्वितीयः । पोन्नः (Ponna)पम्पकविवत् प्रतिभान्वितः नोचेदपि पम्पस्य अपेक्षया अधिकाम् आत्मप्रशंसां कृतवान् अस्ति । वेङिमण्डलं पोन्नस्य स्वग्रामः । शान्तिपुराणं ,भुवनैकरामाभ्युदयं (रामकथा) जिनाक्षरमाला इत्यादयः एतस्य कृतयः ।“ कुरुळ्गऴ सवण” (केशयुक्तजैनसंन्यासी ) ,“उभयचक्रवर्तिः ” एते पोन्नस्य बिरुदौ । इदानीं लभ्यमानौ पोन्नस्य ग्रन्थौ नाम शान्तिपुराणं तथा जिनाक्षरमाला चेति । पोन्नः शान्तिपुराणं “पुराणचूडामणिः ” इति उद्घोषितवान् अस्ति । अस्मिन् काव्ये कालिदासस्य रघुवंशस्य साम्यं दृश्यते । रघुवंशकाव्ये विद्यमानम् इन्दुमतिस्वयंवरं ज्योतिप्रभायाः स्वयंवरस्य वर्णानम् इव , रघुमहाराजस्य दिग्विजयः शान्तीश्वरस्य दिग्विजयस्य वर्णनम् इव योजितवान् अस्ति । षोडशस्य तीर्थङ्करस्य शान्तिनाथस्य इतिहासयुक्तं जैनपुराणमेव शान्तिपुराणम् । एतत् चम्पूकाव्यम् । एषा कृतिः पम्पस्य आदिपुराणवत् उत्कृष्ट न, नीरसं काव्यम् । कुत्रचित् रमणीयम् अस्ति । सर्वेषाम् अपेक्षया श्रेष्ठ कविः इति आत्मानं श्लाघितवान् अस्ति । हस्तेन लिखितानां शान्तिपुराणस्य १०००कृतीनां दानं कृत्वा अत्तिमब्बा श्रेष्ठतां प्राप्तवती । सा काचित् परमा ज्येष्ठा साहित्यप्रिया ।