भारते सर्वोपि पर्वतः येन केनचित् कारणेन पूज्यः अस्ति । जगति अन्यदेशानां जनानां दृष्ट्या जडवस्तु इति यत् चिन्त्यते तादृशं पर्वतं वयं भगवदंशं मन्यामहे । अस्माकं विश्वासस्य बहूनि कारणानि सन्ति । केषुचित् पर्वतेषु देवाः वसन्ति इति वयं विश्वसिमः । केषुचित् ऋषिमुनयः साधनं कुर्वन्तः सन्ति । केषुचित् अस्मत्पूर्वजाः मन्दिराणां निर्मांणम् अकुर्वन् । केचन पर्वताः बहूनां नदीनाम् उद्भवस्थानम् । पुराणेषु, काव्येषु, जनपदसाहित्येषु पर्वतस्य माहात्म्यसम्बद्धानि बहूनि वर्णनानि विवरणानि वा सन्ति ।
प्राचीनकाले कृषकाः इन्द्रस्य अथवा पर्जन्यदेवतायाः पूजां कुर्वन्ति स्म । कृष्णस्य काले व्रजमण्डलस्य जनाः वर्षाकालस्य समाप्त्यनुक्षणम् इन्द्रोत्सवम् आचरन्ति स्म । तत्रत्यप्रजासु अधिकांशाः गोपालकाः । तेषां पर्वतेन सह सम्बन्धः अधिकः । तेषां गावः प्रतिदिनं चरणार्थं पर्वतखातं गच्छन्ति स्म । तस्मात् अधिकप्रमाणेन दुग्धं प्राप्यते स्म । एतदर्थं कृतज्ञतायाः समर्पणम् इव ते पर्वतस्य पूजाम् आरब्धवन्तः । कृष्णस्य सूचनानुसारं तैः गोवर्धनशैलोत्सवः आचरितः । तदारभ्य अस्मद्देशे पर्वतस्य पूजा प्रचलति । इदानीम् अपि कुत्रचित् कृष्णजन्माष्टम्याः अवसरे, भागवतसप्ताहस्य अवसरे च लोहेन वा मृत्तिकया वा गोवर्धनपर्वतं निर्माय पूजां कुर्वन्ति ।
पुराणेषु पर्वतः द्विधा विभक्तः । वर्षपर्वताः कुलपर्वताश्च इति । वर्षपर्वताः राष्ट्रस्य सीमां सूचयन्ति । उदाहरणर्थं – हिमालयः । कुलपर्वताः राष्ट्रस्य अन्तः सन्तः प्रान्तसीमां सूचयन्ति । एतादृशाः सप्त कुलपर्वताः सन्ति ।
वयं प्रातःस्मरणावसरे अस्माकं देशस्य श्रेष्ठान् पर्वतान् स्मरन्तः “महेन्द्रो मलयः सह्यो देवतात्मा हिमालयः । ध्येयो रैवतको विन्ध्यो गिरिश्चारावलिस्तथा ॥“ इत्येतं श्लोकं वदामः ।
एवं प्रातःकाले स्मर्यमाणाः एते पर्वताः अस्माकं श्रद्धाकेन्द्रं जाताः कथम् ? तस्य कारणानि कानि ? इति ज्ञातव्यं चेत् तेषां पर्वतानां परिचयः प्राप्तव्यः प्रथमम् । एतान् पर्वतान् विहाय अन्येऽपि बहवः पर्वताः सन्ति अस्माकं देशे । एते तु पुराणादिषु प्राचीनसाहित्त्येषु वर्णिताः पर्वताः । एतान् विहाय अन्यान् पर्वतान् "शिखरम्" इति पदेन निर्दिष्टवन्तः स्मः । हिमालये एव १४६ शिखराणि सन्ति । तेषां सर्वेषाम् अपि परिचयः कारयितुं शक्यः अस्मिन् विभागे ।