मध्यमावती (रागः)


मध्यमावती (रागः)

आरोहणम् स रिप नि
अवरोहणम् स निप म रि
न्यासस्वराःरि, म
समयःसायंकालः
जनकरागःखरहरप्रिय (रागः)
प्रसिद्धकीर्तनानिपालिंसु कामाक्षि, भाग्याद लक्षमी भारम्मा, रामाभिराम

मध्यमावती रागः कर्णाटकशास्त्रीयसङ्गीतस्य कश्चन रागःवेङ्कटमखेः मेलकर्तृरागव्यवस्थायाः अनुगुणम् अयं रागः खरहरप्रियारागस्य जन्यरागः अस्ति। मेलकर्तृरागव्यवस्थायाम्

मध्यमावतिरागस्य आरोहानाम् अवरोहानाम्

लक्षणानि

[सम्पादयतु]

मध्यमावती औडुवरागः (इत्युक्ते पञ्चस्वराः एव भवन्ति आरोहण-अवरोहणयोः), यतः गान्धारस्य धैवतस्य च अभवः। एषः रागः दिनस्य पश्चिमे भागे गातव्यः। वेदचक्रे द्वितीयः रागः अस्ति एषः। अस्मिन् रागे शुद्धऋषभम्, शुद्धमध्यमम् , कैशिकिनिशादं च स्वराः भवन्ति। कश्चन सङ्गीतपण्डिताः मध्यमावतीरागस्य जनक रागः अस्ति हरिकाम्भोजी, नठभैरवी अथवा चारुकेशी। एषः रागः मङ्लकरः रागः। सङगीतकार्यक्रमेषु अन्तिमं गीतम् अस्मिन् रागे भविष्यति।


अस्मिन् रागे हिन्दोलरागं, मोहनरागं, शुद्धसावेरीरागं च प्रति ग्रहभेदः कर्तुम् अवकाशः अस्ति । साधारणतया श्रुतिः षड्जे भवति। किन्तु ग्रहभेदे श्रुतिः अन्ये स्वरे भवति। यदा वयम् एवं कुर्मः, तदा भिन्नाः रागाः आगच्छन्ति ।

प्रसिद्धानि कीर्तनानि

[सम्पादयतु]

अधः मायामालवगौलरागे प्रसिद्धानाम् कीर्तनानाम् आवलिः दत्ता अस्ति -

  1. "पालिंसु कामाक्षि" - श्यामाशास्त्री, तेलुगुभाषा
  2. "रामाभिराम"- मैसूरु वासुदेवाचार, संस्कृतभाषा
  3. "रामाकथा सुधा" - त्यागराजः, तमिल् भाषा