प्रथमः महेन्द्रवर्मा (६००-६३०) पल्लववंशे महाराजः अभवत्। सः सप्तमे शताब्दे तमिल्नाडुप्रदेशस्य उत्तरभागम् अभ्यशासत। सः कलाभ्रजितस्य सिंहविष्णोः पुत्रः आसीत्। स्वराज्यकाले चालुक्यराजा पुलकेशी पल्लवराज्यम् उपाक्रमत। पल्लवसेना वेङ्गीनगरस्य समीपे रणभूमिषु युधान् अकुर्वन्। महेन्द्रवर्मा पुल्ललूर्नगरे स्वशत्रून् जितवान्। महेन्द्रवर्मा स्वराजधानीम् रक्षितवान् परन्तु राज्यस्य उत्तप्रदेशान् नष्टोऽभवन् । सः संस्कृतद्राविडस्य च साहित्यकारान् अपोषयत्। महेन्द्रवर्मणः पुत्रः नरसिंहवर्मा आसीत्।
महेन्द्रवर्मा यौवनकाले जैनः आसीत्। सः अप्पर्मुनेः उपदेशात् शैवोऽभवत्। सः महान् संस्कृतनाटककारः अभवत्। स एव मत्तविलासम् भगवदज्जुकम् इति द्वे प्रहसने लिखितवान्। सः बहूनि मन्दिराणि स्थापितवान्। तेषु गोकर्णेश्वरमन्दिरम्,महेन्द्रविष्णुगृहम्,सत्यनाथस्त्यगिरिशम्न्दिरौ च प्रमुखानि।