मुहूर्तः नाम भारतीयकालगणनस्य कश्चित् बिन्दुः । मुहूर्तकालः नाम अधुनिककालगणनस्य उप४८मिनिट्स् भवन्ति । लोके मुहूर्तः नामः कस्यचिदपि मङ्गलकार्यस्य समयः इत्येव प्रथितः । अमृतमुहूर्तः, ब्रह्मी मुहूर्तः च श्रेष्ठौ भवतः । ब्राह्मीमुहूर्तकालः सूर्योदयात् २५नडिभ्यः प्राक्तनः (घण्टाद्वयात् पूर्वः) कालः । अयं समयः योगसाधनां कर्तुं योग्यकालः ।
ज्योतिश्शास्त्रे षडङ्गानि सन्ति। तेषु एकम् अङ्गं भवति मुहूर्त्तम्। शुभकार्याणि कर्तुं कालस्य गुणदोषविचिन्तम् मुहूर्त्ताङ्गे प्रतिपादितं वर्तते।
वारः, नक्षत्रम्, तिथिः, करणं, नित्ययोगः, ग्रहः, राशिः इत्येते मुहूर्त्तनिर्णयोपाधयः भवन्ति।
कर्तृदोषाः -
मुहूर्तानां नामानि
क्र.सं. | आधुनिकसमयः | नामानि | मुहूर्ताः |
---|---|---|---|
१ | 06ः00 - 06ः48 | RUDRA | रुद्रमुहूर्तः |
२ | 06ः48 - 07ः36 | AHI | आहिमुहूर्तः |
३ | 07ः36 - 08ः24 | MITRA | मित्रमुहूर्तः |
४ | 08ः24 - 09ः12 | PITRU | पितृमुहूर्तः |
६ | 09ः12 - 10ः00 | VASU | वसुमुहूर्तः |
६ | 10ः00 - 10ः48 | VARA | वाराहमुहूर्तः |
७ | 10ः48 - 11ः36 | VISVADEVA | विश्वेदेवामुहूर्तः |
९ | 11ः36 - 12ः24 | VIDHI | विधिमुहूर्तः |
९ | 12ः24 - 13ः12 | SATAMUKHI | सतमुखीमुहूर्तः |
१० | 13ः12 - 14ः00 | PURUHUTA | पुरुहूतमुहूर्तः |
११ | 14ः00 - 14ः48 | VAHINI | वाहिनीमुहूर्तः |
१२ | 14ः48 - 15ः36 | NAKTANCARA | नक्तनकरामुहूर्तः |
१३ | 15ः36 - 16ः24 | VARUNA | वरुणमुहूर्तः |
१४ | 16ः24 - 17ः12 | ARYAMA | अर्यमामुहूर्तः |
१५ | 17ः12 - 18ः00 | BHAGA | भगमुहूर्तः |
१६ | 18ः00 - 18ः48 | GIRISHA | गिरीशमुहूर्तः |
१७ | 18ः48 - 19ः36 | AJAPAD | अजपादमुहूर्तः |
१९ | 19ः36 - 20ः24 | AHIRBUDHNYA | अहिर्बुध्न्यमुहूर्तः |
१९ | 20ः24 - 21ः12 | PUSA | पुष्यमुहूर्तः |
२० | 21ः12 - 22ः00 | ASWINI | अश्विनीमुहूर्तः |
२१ | 22ः00 - 22ः48 | YAMA | यममुहूर्तः |
२२ | 22ः48 - 23ः36 | AGNI | अग्निमुहूर्तः |
२३ | 23ः36 - 24ः24 | VIDHATR | विधातृमुहूर्तः |
२४ | 24ः24 - 01ः12 | KANDA | कण्डमुहूर्तः |
२५ | 01ः12 - 02ः00 | ADITI | अदितिमुहूर्तः |
२६ | 02ः00 - 02ः48 | JIVA/AMRITA | जीव/अमृतमुहूर्तः |
२७ | 02ः48 - 03ः36 | VISNU | विष्णुमुहूर्तः |
२८ | 03ः36 - 04ः24 | YUMIGADYUTI | युमिगद्युतिमुहूर्तः |
२९ | 04ः24 - 05ः12 | BRAHMA | ब्राह्मीमुहूर्तः |
३० | 05ः12 - 06ः00 | SAMUDRAM | समुद्रमुहूर्तः |
ब्राह्म-मुहूर्तः। ब्राह्ममुहूर्तस्य आयुर्वेदे परिभाषा एवम्।– १ रात्रेः चतुर्दशो मुहूर्तो ब्राह्मो मुहूर्तः। - अष्टाङ्गहृदयम् सूत्रस्थानम् 2.1 अरुणदत्तटीका २रात्रेरुपान्त्यो मुहूर्तो ब्राह्मः।- अष्टाङ्गहृदयम् सूत्रस्थानम् 2.1 हेमाद्रिटीका
लघ्वक्षरसमा मात्रा निमेषः परिकीर्तितः।ततः सूक्ष्मतरो कालो नोपलभ्यो भृगूत्तम॥ . . . द्वौ निमेषौ त्रुटिर्ज्ञेयः प्राणः पञ्चत्रुटिः स्मृतः।विनाडिका तु षट् प्राणाः, तत्षष्टिर्नाडिका स्मृता॥ अहोरात्रं तु तत्षष्ट्या नित्यमेतत् प्रकीर्तितम्।त्रिंशन्मुहूर्ताश्च तथा अहोरात्रे प्रकीर्तिताः। यदा मेषं सहस्रांशुस्तुलां चैव प्रपद्यते।समरात्रिदिवः कालो मुहूर्तश्च तदा समः॥-( विष्णुधर्मोत्तरपुराणम्)
त्रिंशन्मुहूर्ताश्च तथा अहोरात्रे प्रकीर्तिताः। 24 घण्टाः (अहोरात्रः) /30 मुहूर्ताः = 48 मिनिट् । 1 मुहूर्तः नाम 48 मिनिट् । सूर्योदयात्पूर्वं 48 मिनिट् = रात्रेः अन्त्यः मुहूर्तः। अन्त्यमुहूर्ताद् अपि पूर्वं 48 मिनिट् = सूर्योदयात् पूर्वं 96 मिनिट् = रात्रेः उपान्त्यः मुहूर्तः = ब्राह्ममुहूर्तः।