रमाकान्तशुक्लः हिन्दीसंस्कृतयोः भारतीयः विद्वान् आसीत्। २०१३ तमे वर्षे साहित्यक्षेत्रे योगदानस्य कृते पद्मश्री इति चतुर्थः उच्चतमः नागरिकपुरस्कारः प्रदाय भारतसर्वकारेण तस्य सम्मानः कृतः। दिल्लीतः रेलयानेन झारखण्डराज्यं गच्छन् वैशाखमासस्य शुक्लपक्षस्य दशमीतिथौ बुधवासरे (११ मै २०२२ दिनाङ्के) भारतस्य हरिनगरस्य (अलिगढस्य) समीपे स्वशरीरं त्यक्तवान् आसीत्।
रमाकान्तशुक्लस्य जन्म पौषमासस्य शुक्लपक्षस्य एकादशीतिथौ बुधवासरे (२५ दिसम्बर १९४०) तमे वर्षे भारतस्य उत्तरप्रदेशराज्यस्य खुर्जानगरे अभवत् ।[१] तस्य प्रारम्भिकम् अध्ययनं पारम्परिकरीत्या आसीत् यतः सः स्वमातापितृभ्यां संस्कृतं शिक्षितवान्-- साहित्याचार्येण पण्डितेन ब्रह्मानन्दशुक्लेन तथा प्रियंवदाशुक्ल इत्यनया। सः साहित्याचार्यस्य सांख्ययोगाचार्यस्य च उपाधी प्राप्तवान्। अनन्तरं आगराविश्वविद्यालये प्रवेशं प्राप्य स्वर्णपदकेन सह हिन्दीभाषायां स्नातकोत्तरं कृतवान्। ततः सः संपूर्णानन्दसंस्कृतविश्वविद्यालयात् संस्कृते स्नातकोत्तरं कृतवान्। १९६७ तमे वर्षे सः पी.एच.डी इति उपाधिम् अपि प्राप्तवान्। तस्य पी.एच्.डी.इत्यस्य विषयः आसीत् जैनाचार्य रविषेणकृत पद्मपुराण (संस्कृत) एवं तुलसीदास कृत रामचरितमानस का तुलनात्मक अध्ययन इति।
शुक्लः १९६२ तमे वर्षे मोदीनगरस्य मुल्तानीमलमोदी-स्नातकोत्तर-महाविद्यालये हिन्दीव्याख्यातारूपेण सम्मिलित्वा स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवान्। पी.एच्.डी प्राप्य १ अगस्त् १९६७ दिनाङ्के सः राजधानीकोलेज्-दिल्लीविश्वविद्यालये नयी-दिल्ल्यां हिन्दीसंकायसदस्यरूपेण सम्मिलितवान्। विश्वसंस्कृतसम्मेलनम् इत्यादिषु अनेकेषु संगोष्ठीषु सम्मेलनेषु च भागं गृहीतवान् । तेन भारतीयसौन्दर्यशास्त्रे काव्ये संस्कृतसाहित्ये च अखिलभारतीयप्राच्यसम्मेलनानाम् (ओल्-इण्डिया-ओरियन्टल्-कोंफ्रेंस्) अध्यक्षता स्वीकृता। सः दिल्लीतः स्वसंस्थायाः देववाणीपरिषदः प्रकाशितस्य त्रैमासिकपत्रिकायाः अर्वाचीन-संस्कृतस्य संस्थापकः मुख्य-सम्पादकः च अस्ति। सः संस्कृतभाषायाः प्रतिनिधित्वं कुर्वन् आकाशवाण्याम् सर्वभाषा-कविसम्मेलने अपि भागं गृहीतवान् अस्ति
शुक्लेन संस्कृतभाषायां हिन्द्यां च पुस्तकानि लिखितानि सन्ति। तेन दूरदर्शनद्वारा प्रसारितस्य भाति मे भारतम् इति संस्कृतदूरदर्शनश्रृङ्खलायाम् अपि लेखनं निर्देशनं च कृतम् अस्ति ।
शुक्लः राष्ट्रीयसंस्कृतसंस्थाने शास्त्रचूडामणिविद्वान्रूपेण स्वकर्तव्यं निर्वहन् नवीदिल्लीनगरे निवसति।
शुक्लः कतिपयाभिः साहित्यिकसंस्थाभिः कविरत्न संस्कृतराष्ट्रकविः कविशिरोमणिः हिंदीसंस्कृतसेतुः च उपाधीन् प्राप्तवान् अस्ति। तस्मै कालीदाससम्मानः संस्कृतसाहित्यसेवासम्मानः संस्कृतराष्ट्रकविः चापि उपाधयः अमिलन्। उत्तरप्रदेशसर्वकारेण राज्यपुरस्कारेण शुक्लः सम्मानितः अस्ति। दिल्लीसंस्कृत-अकादमी इत्यनया सः अखिलभारतीय-मौलिकसंस्कृत-रचनापुरस्कारः अपि प्राप्तवान्। भारतस्य राष्ट्रपतिना तस्मै २००९ तमे वर्षे संस्कृतविद्वान्-पुरस्कारः प्रदत्तः ।तदनन्तरं भारतसर्वकारेण पद्मश्रियम् २०१३ तमे वर्षे दत्तः। सः भारतीयसंस्कृतप्रचारसङ्घस्य संस्थापकः अध्यक्षः अस्ति। शुक्लः २०१८ तमे वर्षे मम जननी इत्यस्मै संस्कृते साहित्य-अकादमीपुरस्कारेण सम्मानितः।