रमेशः पोखरियालः निशाङ्कः | |
---|---|
Assumed office ३० मे २०१९ | |
Prime Minister | नरेन्द्रमोदी |
Preceded by | प्रकाशजावडेकरः |
लोकसभासदस्यः | |
Assumed office १६ मे २०१४ | |
Preceded by | हरीशरावतः |
Constituency | हरिद्वारम् |
उत्तराखण्जस्य मुख्यमन्त्री २७ जून् २००९ तः | |
Preceded by | बि. सि खन्दुरी |
Succeeded by | बि. सि खन्दुरी |
व्यैय्यक्तिकसूचना | |
Born |
१५-०७-१९५९ पौरी गर्वालः, पिनानि उत्तराखण्डः, भारतम् |
Political party | भारतीयजनतापक्षः |
Spouse(s) | कुसुमकान्ता पोख्रियालः |
Residence | डेहराडून्, उत्तराखण्डः |
Alma mater | हेमावतीनन्दनबहुगुणविश्वविद्यालयः |
Occupation | राजनेता, कविः, लेखकः |
Website | www.rameshpokhriyalnishank.in |
रमेशपोखरियालनिशाङ्कः (जन्म- १५ जुलै २९५९) कश्चन भारतीयः राजनेता। सः १७लोकसभायाः हरिद्वारतः भारतीयजनतापक्षस्य संसत्सदस्यः। सः उत्तराखण्डराज्यस्य मुख्यमन्त्रिचरः। २००९ तः २०११ पर्यन्तं मुख्यमन्त्री आसीत्।[१] २०१९ तमे वर्षे मेमासस्य ३० दिनाङ्के केन्द्रसर्वकारस्य सङ्घमन्त्रिरूपेण शपथग्रहणम् अकरोत्।[२] मे ३१ तमे दिनाङ्के मानवसम्पन्मूलसंसाधनमन्त्रित्वेन तस्य नियुक्तिः अभवत्।
रमेशपोखरियालः उत्तराखण्डराज्यस्य पिनाई ग्रामे जन्म प्राप्तवान्। तस्य पितरौ परमानन्द पोखरियालः विशम्बरीदेवी च। हेमावतीनन्दन बहुगुणविश्वविद्यालयतः पदवीं प्राप्तवान्। ततः एम्. ए अपि समापितवान्।[३]
कुसुमापोखरियालेन सह विवाहः अभवत्। अनारोग्यकारणतः सा नवेम्बर् ११ २०१२ तमे वर्षे दिवङ्गता। तस्य आरुषी, श्रेयशी, विदुषी इति तिस्रः पुत्र्यः द्वौ पुत्रौ च ।[४]
पोखरियालः बाल्यकालादारभ्य भारतीयजनतापक्षस्य कार्यकर्ता आसीत्। सर्वादौ उत्तरप्रदेशस्य विधानसभायां १९९१ तमे वर्षे कर्णप्रयागक्षेत्रतः शासकः अभवत्। ततः १९९३, १९९६ विधानसभयोः अपि कर्णप्रयागतः एव चितः। १९९९ तमे वर्षे रामप्रकाशगुप्तस्य मन्त्रिमण्डले उत्तराञ्चलाभिवृद्धिमन्त्रित्वेन नियुक्तः। २००९ तमे वर्षे उत्तराखण्डस्य मुख्यमन्त्री अभवत्। सः उत्तराखण्डस्य वयसि कनिष्ठतमः मुख्यमन्त्री। २०११ पर्यन्तं सः मुख्यमन्त्रिपदे आसीत्। १९९१ तः २०१२ पर्यन्तं पञ्चसु विधानसभासु सः सदस्यः आसीत्। २०१४ तमे वर्षे हरिद्वारतः लोकसभासदस्यरूपेण निर्वाचितः।[५] पुनरपि २०१९ लोकसभानिर्वाचने अपि चितः। [६] [७] २०१९ मे मासे प्रधानमन्त्रिणः नरेन्द्रमोदिनः सचिवसम्पुटे मानवसम्पन्मूलाभिवृद्धिमन्त्रालयस्य मन्त्री अभवत्।[८]
वर्षम् | पदम् |
---|---|
१९९१ | कर्णप्रयागतः उत्तरप्रदेशस्य शासकत्वेन चितः। (प्रथमचक्रम्) |
१९९३ | कर्णप्रयागतः उत्तरप्रदेशस्य शासकत्वेन चितः। (द्वितीयचक्रम्) |
१९९६ | कर्णप्रयागतः उत्तरप्रदेशस्य शासकत्वेन चितः। (तृतीयचक्रम्)
|
२००० | कर्णप्रयागतः उत्तराखण्डस्य शासकत्वेन चितः। (तात्कालिकः)
|
२००७ | कर्णप्रयागतः उत्तराखण्डस्य शासकत्वेन चितः। (प्रथमचक्रम्)
|
२०१२ | डोईवालातः उत्तराखण्डस्य शासकत्वेन चितः। (द्वितीयचक्रम्) |
रमेशपोखरियालः बाल्यकालादेव कविताः रचयति स्म। हिन्दीभाषया सः अनेकान् ग्रन्थान् रचितवान्। तस्य प्रथमग्रन्थः 'समर्पण' इति कवितासङ्ग्रहः १९८३ तमे वर्षे प्रकाशितः। एतावता तस्य १० कवितासङ्ग्रहाः, १२ कथासङ्ग्रहाः, १० उपन्यासाः, २ प्रवासकथने, ६ बालसाहित्यपुस्तकानि, २ व्यक्तित्वविकासग्रन्थाः, इत्येवं उपपञ्चाशाः ग्रन्थाः प्रकाशिताः। तेषां नामानि यथा-
एतस्य कृतयः जर्मन्-फ्रेञ्च्-आङ्ग्ल-तेलुगु-तमिळु-मराठी- गडवाली भाषासु अनूदिताः।
२०१० तमे वर्षे उत्तराखण्डराज्यस्य द्वितीयाधिकारिकभाषारूपेण संस्कृतस्य उद्घोषणा रमेशपोखरियालेन कृता।[९] तथा च सर्वासु शालासु अनिवार्यरूपेण संस्कृतपाठनाय निर्देशः अपि दत्तः। २०११ तमे विश्वसंस्कृतसम्मेलने सः सम्मानितः च।[उद्धरणं वाञ्छितम्] संस्कृतविश्वविद्यालयानाम् अभिवृद्धौ आस्था केन्द्रसर्वकारस्य अस्ति इति मानवसंसाधनविकासमन्त्रालयस्य मन्त्रित्वेन तेन उक्तम्। द्वयोः संस्कृतग्रामयोः निर्माणार्थं प्रयासः विधीयते इत्यपि उल्लिखितम्।[१०]