वादिराजतीर्थः

पीठिका

[सम्पादयतु]

देशे यदा धर्मग्लानिर्भवति तदा अवतारपुरुषाः सनातनधर्मस्य रक्षणं कुर्वन्ति इति अस्माकं देशस्य इतिहासे उल्लेखः अस्ति । तादृशेषु धर्मप्रचारकेषु श्रीवादिराजतीर्थः प्रमुखः । माध्वतत्त्वस्य आरम्भकर्तृषु अयं श्री आचार्यमध्वः आध्यात्मिकप्रपञ्चे द्वैतसिद्धान्तस्य प्रतिष्ठापनाचार्यः । एषः अध्यात्मं, वेदान्तं, तत्त्वज्ञानं च सर्वान् प्रबोध्य श्रीकारः इति ख्यातिं प्राप्तवान् । अद्यापि सोन्दातपोभूमेः वृन्दावने एषः वसति इति जनानां विश्वासः । अयं श्रीवादिराजतीर्थः निरन्तरं भक्तानां प्रार्थनां, मनसः अभीष्टं च पूरयति। वादिराजः कर्णाटकराज्ये दक्षिणकन्नडमण्डलस्य हूविनकेरे ग्रामे शालिवाहनशकवर्षे १४०२ (क्रि.श १४८०) तमे वर्षे जन्म प्राप्तवान् । एतस्य पिता रामभट्टः, माता गौरम्मा इति । दम्पत्योः बहुवर्षाणि यावत् सन्ततिः नासीत्। इमौ पुत्रसन्तानापेक्षया श्रीभूवराहस्वामिनं श्रद्धया आराधितवन्तौ । केषुचित् दिनेषु एव तौ क्रि.श.१४८० वर्षे शार्वरीसंवत्सरे माघशुद्धद्वादश्यां श्रीभूवराहस्वामिनः अनुग्रहेण पुत्ररत्नं प्राप्तवन्तौ। तस्य ’भूवराहः’ इत्येव नामकरणं कृतवन्तौ। एषः एव अग्रे "' वादिराजतीर्थ: "' इति प्रसिद्धः अभवत् ।

बाल्यम्

[सम्पादयतु]

बालकस्य भूवराहस्य तस्य पितरौ सम्प्रदायरीत्या पञ्चमे वर्षे उपनयनसंस्कारं कृतवन्तौ । तदनन्तरं गुरुकुले एव तस्य अध्ययनं अभवत् । तस्मिन् समये एव श्रीवागीशतीर्थः उडुपीमण्डले रामभट्टस्य गृहे पादपूजां स्वीकर्तुं आगतवान् आसीत् । तदा सः एनं बालकं दृष्टवान् । तं तेजस्विनं बालकं वीक्ष्य तस्य महान् आनन्दः अभवत्। "एषः एव अस्माकं मठस्य उत्तराधिकारी भवितुम् अर्हति" इति सः चिन्तितवान् । भूस्वामिनः अनुज्ञानुसारेण रामभट्टदम्पती पुत्रं श्रीमठाय समर्पितवन्तौ । बाल्यादेव भूवराहः कुशाग्रमतिः आसीत् । तस्य असाधारणाध्यात्मिकासक्तिः, अप्रतिमा ज्ञानपिपासा, अपूर्वाकर्षणस्य मनोभावः च आसन् । एतत् सर्वं दृष्ट्वा गुरुः श्रीवागीशतीर्थः तं सकलधर्मशास्त्रपुराणं,उपनिषदः,सर्ववेदान् च पाठितवान् । अनेन भूवराहः अद्वितीयविद्वान् सकलविद्यापारङ्गतः च अभवत् ।

संन्यासदीक्षा विजययात्रा च

[सम्पादयतु]

भूवराहस्य अष्टमे वयसि श्रीवागीशतीर्थः तस्मै श्रीहरिसङ्कल्पानुसारेण सन्यासदीक्षाम् अददात् । तस्य ’श्रीवादिराजतीर्थः’ इति पुनः नामकरणं कृतवान् । ततः परं सः इतिहासपुटेषु,धार्मिकक्षेत्रे च श्रीवादिराजतीर्थः इत्येव प्रसिद्धः । संन्यासदीक्षानन्तरं श्रीवादिराजतीर्थः गुरोः अनुमतिं लब्ध्वा धर्मप्रचारार्थम् अखण्डभारते सञ्चारं कृतवान्। उडुपीमण्डलादारभ्य भारतस्य प्रमुखतीर्थक्षेत्रेषु अटनं कृतवान् । सर्वत्र माध्वमततत्त्वस्य प्रचारं कृतवान्। भक्तानां कष्टानां वेदनानां च निवारणं कृतवान् । श्रीवादिराजतीर्थः प्रमुखक्षेत्रेषु विद्वद्भिः साकं गोष्ठीम् आयोज्य वाक्यार्थं कृत्वा द्वैतसिद्धान्तस्य अद्वैतसिद्धान्तस्य च विवरणम् अकरोत् । यथा सर्वेषाम् अवगमनं भवेत् तथा सः द्वैतसिद्धान्तस्य सारं व्यवृणोत्।

वादिराजतीर्थः महान् विद्वान् आसीत् । कन्नडेन,संस्कृतेन च ग्रन्थान् लिखितवान् । वादिराजतीर्थस्य श्रीलक्ष्मी शोभाने गीतम् अत्यन्तं मङ्गलकरं पुस्तकम् इति प्रसिद्धम् । एतत् काव्यं "शोभानगीता" इति कस्यचित् नूतनगीतप्रकारस्य उद्भवार्थं नान्दी अभवत् । अद्यतनेषु दिवसेष्वपि शुक्रवासरे विवाहादिसंस्कारेषु शुभसमारम्भेषु च एतेषां गीतानां गानं रूढ्याम् अस्ति ।

एकदा श्रीवादिराजतीर्थः तिरुपतिक्षेत्रं गतवान् । ततः सः श्रीलक्ष्मीवेङ्कटेश्वरस्य दर्शनं प्राप्तुं तिरुमलक्षेत्रं पद्भ्यामेव प्रस्थितवान् । तत्र तस्य कश्चन विचित्रानुभवः अभवत् । गिरेः उपरि शिलाः सर्वाः सालिग्रामरूपेण गोचराः अभवन् । यदि पद्भ्यामेव तेन गम्यते तर्हि पवित्रमयसालिग्रामस्य पादाघातः भवति इति विचिन्त्य सः जङ्घाभ्याम् एव शैलम् आरुह्य श्रीहरिगोविन्दस्य दर्शनं प्राप्य धन्यः बभूव । तिरुपतिनगरे अपि श्रीवादिराजतीर्थः अनेकैः पण्डितैः सह भक्तिमार्गस्य , अध्यात्मविषयस्य , सिद्धान्तविषयस्य च चर्चां कृत्वा स्वस्य पाण्डित्येन तान् सर्वान् विदुषः पराजित्य शिष्यरूपेण स्वीकृतवान् ।

तदनन्तरं महाराष्ट्रराज्यस्य पुणेमहानगरं गत्वा "श्रीरुक्मिणीशविजयम्" इति महाकाव्यं लिखितवान् । अनेकानि स्तोत्राणि, उद्ग्रन्थानां भाष्याणि च रचितवान् । वादिराजतीर्थः अग्रे विजयनगरस्य राजगुरोः श्री व्यासरायस्य कृपाभाजनः अभवत् । एवं पञ्चसहस्राधिकश्लोकात्मकः युक्तिमल्लिका ,शृतितत्वप्रकाशिका ,हरिभक्तिलता, महाभारतलक्षालंकार, सरसभारतीविलासः,तीर्थप्रबंधः इत्यादयः तस्य प्रसिद्धग्रन्थाः।

पूजाकैङ्कर्यम्

[सम्पादयतु]

श्रीवादिराजस्य नित्यपूजाकैङ्कर्यम् अप्रतिमम् आसीत् । यदा सः चणकेन निर्मितं मधुरपूरणं शिरसि निधाय दशावतारस्तोत्रं स्तौति स्म । तदा हयग्रीवस्वामी स्वयम् अश्वरूपेण प्रत्यक्षः भूत्वा तत् खादति स्म ।

उडुपीश्रीकृष्णस्य पूजनार्थं पूर्वं श्रीमध्वाचार्यकालतः द्वौ मासौ पर्यायक्रमरूपेण आस्ताम् । सः पर्यायक्रमः वर्षद्वयं भवेदिति परिवर्तनं श्रीवादिराजतीर्थः एव कृतवान् । अनेन १४ वर्षपर्यन्तं भक्तानुग्रहं,तीर्थयात्रा,धर्मप्रसरणकार्यं, माध्वसिद्धान्तप्रसारकार्यं च कर्तुं मठादीशानाम् अवसरः लब्धः । श्रीवादिराजतीर्थः एवं पञ्चपर्यायान् यावत् श्रीकृष्णस्य पूजाकैङ्कर्ये सहभागी भूत्वा शतायुषी बभूव ।

देहत्यागः

[सम्पादयतु]

शा.श. १५२२ (क्रि.श १६००)तमे वर्षे शार्वरीसंवत्सरे फाल्गुणकृष्णतृतीयायां बुधवासरे स्वस्य १२० तमे वर्षे वैकुण्ठवासी अभवत् ।

उत्तरकन्नडमण्डले शिरसिनगरस्य समीपे सोन्दापुण्यक्षेत्रे एतस्य मूलवृन्दावनम् अस्ति । तत्र प्रतिवर्षं मार्चमासे आराधनाकार्यक्रमः भवति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]