वि.सीतारामय्यः(V Sitaramayya)।
वि.सी. इत्येव प्रख्यातः वि.सीतारामय्यः अनुशासनसंयमयोः निमित्तं प्रसिद्धः कन्नडस्य ज्येष्ठः विद्वान् । एतस्य जन्मस्थानं बेङ्गळूरुग्रामान्तरमण्डलस्य ,देवनहळ्ळी-उपमण्डलयस्य बूदिनगेरे ग्रामे १८९९ तमे वर्षे द्वितीयदिनाङ्के जन्म अभवत् । पिता वेङ्कटरामय्यः, माता दोड्डवेङ्कटम्मा।
मैसूरुमहाविद्यालये उन्नतशिक्षणं प्राप्य सीतारामय्यः १९२० तमे वर्षे बि.ए.पदवीं,१९२२ तमे वर्षे यम्.ए पदवीं च प्राप्तवान् । तदनन्तरं मुम्बयीं गत्वा एल्.एल्.बी पदवीं प्राप्य मैसूरुनगरं प्रति प्रत्यागतवान् । कानिचन वर्षाणि यावत् प्रौढशालायां शिक्षक रूपेण सेवां कृत्वा १९२८ तः १९५०पर्यन्तं मैसूरु विश्वविद्यालये कन्नडाध्यापकः , प्राध्यापकः च ब्भूत्वा सेवां कृत्ववान्। अन्ते बेङ्गलूरु सेन्ट्रल् महाविद्यालयस्य कन्नडविभागस्य मुख्यस्थः सन् १९५८ तमे वर्षे निवृत्तः जातः । निवृत्तेः अनन्तरं बेङ्गळूरूआकाशवाणीकेन्द्रस्य भाषणविभागे कानिचनवर्षाणि यावत् निर्मापकत्वेण कार्यनिर्वहणं कृतवान् ।
वि.सीतारामय्यः बौद्धिकसम्पदः खनिः । एषः कविः, विमर्शकः, नाटककारः, अनुवादकः, पत्रिकयाः सम्पादकः च भूत्वा कर्णाटकस्य कृते यां सेवां कृतवान् सा अनुपमा अस्ति । प्रबुद्धकर्णाटकस्य सम्पादकः, ‘कन्नड नुडि’ पत्रिकायाः सम्पादकः, कन्नडसाहित्यपरिषदः ‘परिषत्पत्रिकायाः सम्पादकरूपेण च कृता एतस्य सेवा अमोघा अस्ति ।
वि. सीतारामय्यः१९५४ तमे वर्षे कुमटानगरे प्रचलितस्य ३६ तमस्य कन्नडसाहित्यसम्मेलनस्य अध्यक्षस्थानम् अलङ्कृतवान् आसीत् । एतस्मै १९७३ तमे वर्षे केन्द्रसाहित्य-अकाडेमीप्रशस्तिः प्राप्ता ।कर्णाटकराज्यस्य छात्रेभ्यः सर्वेषु वर्गेषु कन्नडमाध्यमेण शिक्षणं भवेत् इति वक्त्तृषु वि.सीतारामय्यः अपि अन्तर्भूतः । एषः कन्नडभाषायाम् आङ्लभाषायां च परिणतिं प्राप्य ग्रन्थरचनां कृतवान्।
एतानि वि.सीतारामय्येण आङ्ग्ल भाषया लिखितानि जीवनचित्राणि ।