शान्तिनाथः | |
---|---|
षोडशः जैनतीर्थङ्करः | |
शान्तिनाथस्य प्रतिमा | |
विवरणम् | |
ऐतिहासिककालः | १ × १०१९४ वर्षाणि पूर्वम् |
परिवारः | |
पिता | विश्वसेन |
माता | अचिरा |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | हस्तिनापुरी |
निर्वाणम् | सम्मेदशिखरम् |
लक्षणम् | |
वर्णः | सुवर्णः |
चिन्हम् | मृगः |
औन्नत्यम् | ४० धनुर्मात्रात्मकम् (१२० मीटर्) |
आयुः | १,००,००० वर्षाणि |
शासकदेवः | |
यक्षः | गरुडः |
यक्षिणी | निर्वाणी |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
शान्तिनाथः ( ( शृणु) /ˈʃɑːntɪnɑːθəhə/) (हिन्दी: शान्तिनाथ,आङ्ग्ल: Shantinath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु षोडशः तीर्थङ्करः अस्ति । भगवतः धर्मनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं मृगः अस्ति ।
कौमारावस्थायां शान्तिनाथस्य शरीरस्य औन्नत्यं चत्वारिंशत् (४०) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “गरुड” इत्याख्यः यक्षः, “निर्वाणी” इत्याख्या यक्षिणी च आसीत् । भगवान् शान्तिनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयश्चासीत् ।
त्रयस्त्रिंशत्सागरोपमानन्तरं भगवतः जीवः भरतक्षेत्रस्य हस्तिनापुर-नामिकायां नगर्याम् अवतीर्णः । तस्यां नगर्यां वैशाख-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ भरणी-नक्षत्रे मध्यरात्रौ भगवतः शान्तिनाथस्य जन्म अभवत् [२]।
शान्तिनाथस्य पिता विश्वसेनः, माता च अचिरादेवी आसीत् । विश्वसेनः हस्तिनापुरनगर्याः राजा आसीत् । एकदा श्रावण-मासस्य कृष्णपक्षस्य षष्ठ्यां तिथौ भरणी-नक्षत्रे रात्रौ अचिरादेवी तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव अचिरादेवी राज्ञे विश्वसेनाय चतुर्दशस्वप्नान् श्रावितवती । तस्यां रात्रौ एव भगवतः शान्तिनाथस्य जीवः अचिरादेव्याः गर्भं प्राविशत् [३]।
आगामि-दिवसे राजा स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रं स्वप्नानां फलादेशाय वर्तते । स्वप्नशास्त्रिणां पूजनं कृत्वा अचिरादेवी चतुर्दश स्वप्नान् श्रावितवती । स्वप्नशास्त्रिभिः स्वप्नानां फलादेशं कृतं यत् – “अचिरादेव्याः गर्भे एकः विशिष्टः बालकः अस्ति । सः तीर्थङ्करत्वलक्षणं धरति” इति ।
गर्भकालस्य नवमासानन्तरं भगवतः शान्तिनाथस्य जन्म अभवत् । प्रसवः अपि पीडारहितः जातः । भगवतः जन्मसमये सम्पूर्णं विश्वं शान्तम् आसीत्, केवलं दिशः एव शान्ताः नासन् । राज्ञा पुत्रप्राप्त्या प्रसन्नस्सन् सर्वेभ्यः दानं कृतवान् । नगरजनाः अपि प्रसन्नाः आसन् । एकादशदिनानि यावत् सर्वैः जन्मोत्सवः आचरितः । लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च भगवतः शान्तिनाथस्य जन्मोत्सवे समुपस्थिताः आसन् । लोकान्तिकदेवानां, इन्द्राणां च उपस्थितिः आवश्यकी वर्तते स्म ।
द्वादशे भवे भगवतः शान्तिनाथस्य जन्म अभवत् । तत्पूर्वम् एकादशभवानां यात्रा समाप्य शान्तिनाथः द्वादशे भवे राज्ञः विश्वसेनस्य गृहे अवतीर्णः ।
जम्बूद्वीपस्य पूर्वमहाविदेहस्य पुष्कलावतीविजये पुण्डरीकिणी-नामिका नगरी आसीत् । तस्याः नगर्याः राजा धनरथः आसीत् । सः धनरथस्य द्वे भार्ये आस्ताम् । प्रथमा प्रियमतिः, अपरा मनोरमा च । शान्तिनाथस्य जीवः नवमभवस्य आयुष्यं पूर्णं कृत्वा दशमभवे प्रियमत्याः गर्भं प्राविशत् । नवमासानन्तरं तस्य जन्म अभवत् । मेघरथः इति तस्य बालकस्य नाम कृतम् । मनोरमा अपि गर्भवती आसीत् । अतः तस्य बालकस्य नाम दृढरथः कृतम् ।
सुमन्दिरपुरस्य निहतशत्रुः नामकः राजा आसीत् । तस्य पुत्रीत्रयम् आसीत् । प्रियमित्रा, मनोरमा, सुमतिः च । प्रियमित्रायाः, मनोरमायाः च विवाहः मेघरथेन सह अभवत् । सुमत्याः विवाहः दृढरथेन सह अभवत् । प्रियमित्रा नन्दिषेण-नामकं पुत्रं, मनोरमा मेघसेन नामकं पुत्रं, सुमतिः रथसेन-नामकं पुत्रं च अजीजनत् ।
राज्ञा धनरथेन मेघरथस्य राज्याभिषेकः कृतः, तस्मै राज्यस्य दायित्वं च प्रदत्तम् आसीत् । तेन दृढरथः राज्यस्य युवराजः उद्घोषितः । अनन्तरं सः दीक्षाम् अङ्गीकृतवान् । मेघरथः न्यायानुसारं राज्यस्य सञ्चालनं करोति स्म । तस्य राज्ये कस्यापि वस्तुनः अभावः नासीत् । अतः प्रजाझ् सुखम् अजीवन् । मेघरथः धार्मिकः आसीत् । तेन कारणेन सम्पूर्णे नगरे धार्मिकवातावरणम् आसीत् ।
मेघरथः यदा साधनां कर्तुम् उपविशति स्म, तदा तस्य ध्यानं कदापि विचलितं न भवति स्म । स्वर्गलोके अपि मेघरथस्य साधनाविषयिकी प्रशंसा जाता । प्रशंसां श्रुत्वा सुराङ्गनाः अपि चकिताः अभवन् । ताभिः सुराङ्गनाभिः मेघरथं विचलितुं कर्तुं मनसि निर्णयः कृतः ।
एकदा मेघरथः पौषधशालायां पौषधं (Fasting) कुर्वन् आसीत् । तदा सुराङ्गनाः तत्र गत्वा नृत्यं कुर्वत्यः आसन् । ताभिः तत्रत्यां वातावरणम् अपि मादकं कृतम् । इतः परं ताभिः सुराङ्गनाभिः मेघरथः रतिक्रीडायै अभ्यर्थितः । तथापि मेघरथः साधनायां तटस्थः आसीत् । सुराङ्गनानां सर्वे प्रयासाः व्यर्थाः जाताः । आरात्रं यः प्रयासः कृतः तस्मिन् असफले सति प्रातःकाले सुराङ्गनाः स्वस्य वास्तविकस्वरूपं धृतवत्यः । स्वपरिचयं च दत्तवत्यः ताः ।
मेघरथस्य पिता धनरथः तीर्थङ्करः आसीत् । धनरथस्य प्रवचनं श्रुत्वा मेघरथः अपि वैराग्ययुतोऽभूत् । अतः मेघरथेन स्वस्य पुत्रस्य मेघसेनस्य राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तम् ।
दृढरथेन, सप्तशतपुत्रैः, चतुर्सहस्रेण राजभिः च सह मेघरथः धनरथात् दीक्षां स्वीकृतवान् । एकलक्षं वर्षाणि यावत् मेघरथेन तपस्या कृता । अन्ते तीर्थङ्करपदं प्राप्य सः शैलेशीपदं प्रापत् । अनशनान्ते मेघरथस्य निर्वाणमभवत् । दृढरथः अपि साधनां कृत्वा सिद्धः अभवत् ।
अनन्तरं मेघरथः एकादशे भवे अवतीर्णः । एकादशे भवे मेघरथेन त्रयस्त्रिंशत्सागरमात्रात्मकानां वर्षाणाम् आयुष्यं प्राप्तम् ।
अनेन प्रकारेण शान्तिनाथेन प्रथमभवम् आरभ्य एकादशभवपर्यन्तम् आयुष्यं भुक्तम् । अनन्तरं शान्तिनाथस्वरूपेण द्वादशे भवे अवतीर्णः ।
बालकस्य जन्मनः एकादशदिनानाम् अनन्तरं नामकरणसंस्कारविधिः करणीयः भवति । अतः भगवतः शान्तिनाथस्य जन्मनः एकादशदिनानाम् अनन्तरं नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । बहवः देवाः स्वर्गलोकात् अपि समागताः । लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । तीर्थङ्करस्य सर्वेषु उत्सवेषु देवाः उपस्थिताः भवन्ति एव ।
राज्ये जनाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणस्य चर्चा जाता । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । किन्तु देवैः गर्भकाले घटितानां घटनानाम् उल्लेखं कर्तुं राजा उक्तः । अतः राज्ञा गर्भकालस्य घटनाः श्राविताः यत् – “अस्माकं राज्ये केभ्यश्चित् मासेभ्यः प्राग् व्याधिरोगस्य (plague) भयङ्करः प्रकोपः आसीत् । सर्वे जनाः तेन रोगेण ग्रस्ताः आसन् । अचिरादेवी अपि व्याधिरोगेण ग्रस्ता आसीत् । यदा बालकस्य जीवः गर्भं प्राविशत्, तदैव अचिरादेव्याः रोगः अपि शान्तः जातः । शनैः शनैः तद्रोगः राज्यात् अपि निर्गतः । अतः अस्य बालकस्य नाम शान्तिकुमारः इति करणीयम्” ।
“शान्तिकुमारः तीर्थङ्करः भविष्यति” इति विश्वसेनस्य मनसि आसीत् एव । तथापि विश्वसेनः शान्तिकुमारम् अन्यत् किमपि भावयितुम् इच्छति स्म । शैशवकालस्य समाप्त्यनन्तरं राजा विश्वसेनः यशोमत्या, अन्याभिः राजकन्याभिः च सह शान्तिकुमारस्य विवाहं कारितवान् ।
उचितसमये राज्ञा विश्वसेनेन शान्तिकुमारस्य राज्याभिषेकः कृतः । अनन्तरं विश्वसेनेन शान्तिकुमाराय राज्यस्य सम्पूर्णं दायित्वम् अदीयत । ततः परं राजा विश्वसेनः मुनिव्रतम् अङ्ग्यकरोत् । विश्वसेनः राज्यं त्यक्त्वा साधनां कर्तुं निर्गतः ।
दृढरथस्य जीवः शान्तिकुमारस्य पत्न्याः कुक्षौ प्रविष्टः । तस्मिन् एव समये यशोमत्या स्वप्नः दृष्टः । यशोमतिः स्वप्ने एकं चक्रं दृष्टवती । तच्चक्रम् आकाशमार्गात् तस्याः मुखं प्राविशत् । यशोमत्या अयं स्वप्नः शान्तिनाथाय श्रावितः । स्वप्नं श्रुत्वा शान्तिनाथः उक्तवान् यत् – “भवत्याः गर्भे पूर्वजन्मनः मम अनुजः दृढरथः अस्ति” । नवमासानन्तरं बालकस्य जन्म अभवत् । तस्य नाम चक्रायुधः इति कृतम् । अनन्तरं तस्य विवाहः अनेकाभिः कन्याभिः सह कारितः ।
बहुकालानन्तरं शान्तिनाथस्य आयुधशालायां चक्ररत्नम् उद्भूतम् । चक्रस्य साहाय्येन शान्तिनाथेन अष्टशते वर्षेषु षड्खण्डाः जिताः । तेन सः चक्रवर्ती अभवत् । शान्तिनाथेन राजपदं प्राप्तम् । तेन मातृवत् विरक्तिपूर्वकं च राज्यस्य पालनं कृतम् आसीत् । शान्तिनाथस्य राज्ये अपराधिनः अपि न्यूनाः अभवन् । कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । जनाः अपि आन्तरिकविवादान् विस्मृतवन्तः ।
प्रजाजनाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । राजा शान्तिनाथः अपि राज्यस्य सञ्चालनेन सन्तुष्टः आसीत् । राज्ञः मनसि सात्विकः सन्तोषः आसीत् । जनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बम् इव प्रतिभाति स्म । राज्ये जनाः सुखिनः आसन् । सः गान्धर्वदेवाः इव पञ्चेन्द्रियसुखानां भोगं करोति स्म । समयान्तरे शान्तिनाथस्य मनः विरक्तं जातम् ।
भोगावलिकर्मणः अन्तं ज्ञात्वा भगवता शान्तिनाथेन राज्ये सुव्यवस्था कृता । यद्यपि भगवता शान्तिनाथेन पञ्चाशत्सहस्रं वर्षाणि यावत् राज्यस्य सञ्चालनं कृतम् आसीत् । यदा सः दीक्षायाः समयं ज्ञातवान्, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तवान् ।
शान्तिनाथः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र आगतवन्तः । ततः परं भगवान् शान्तिनाथः वार्षिकीदानं कृतवान् । एकवर्षं यावत् तेन वार्षिकीदानं कृतम् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि जनाः अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।
राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । यदा वार्षिकीदानं समाप्तं जातं, तदा वैशाख-मासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ भरणी-नक्षत्रे भगवान् शान्तिनाथः सहस्रजनैः सह हस्तिनापुरस्य सहस्राम्रोद्यानं गतवान् आसीत् । तत्र लोकान्तिदेवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवता शान्तिनाथेन दीक्षा अङ्गीकृता ।
दीक्षानन्तरम् एकमासं यावत् भगवान् शान्तिनाथः रहसि आसीत् । भगवान् शान्तिनाथः एकवर्षं यावत् विविधाः तपस्याः, साधनाः च चकार । सः विचरन् विचरन् पुनः हस्तिनापुर-नगरीं प्राप्तवान् ।
हस्तिनापुर-नगर्यां पौष-मासस्य शुक्लपक्षस्य नवम्यां तिथौ भरणी-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् । तदा लोकान्तिकदेवाः, नगरजनाः च अपि तत्र उपस्थिताः आसन् । सर्वे मिलित्वा कैवल्यमहोत्सवस्य आयोजनं कृतवन्तः, उत्सवम् आचरितवन्तः च ।
ततः परं भगवान् शान्तिनाथः प्रथमं प्रवचनं कृतवान् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः निवृत्तिं प्राप्तवन्तः । भगवतः शान्तिनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, तल्लीनाः च अभवन् ।
यदा भगवान् शान्तिनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा शान्तिनाथेन धार्मिकपरिवारस्य अपि रचना कृता[४]।
अयं भगवतः शान्तिनाथस्य धार्मिकः परिवारः अस्ति । तेषु परिवारजनेषु षड्त्रिंशत् गणधरेषु “चक्रायुधस्वामी” इत्याख्यः प्रथमः गणधरः आसीत् ।
तीर्थङ्कराः सर्वज्ञाः भवन्ति । अतः पूर्वमेव तेभ्यः निर्वाणसमयस्य ज्ञानं भवति । यदा भगवता शान्तिनाथेन अपि स्वस्य निर्वाणकालः ज्ञातः, तदा सः सप्तसहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धत्वं प्रापत् ।
एकमासस्य अनशनान्ते ज्येष्ठ-मासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ पुष्य-नक्षत्रे सम्मेदशिखरे भगवतः शान्तिनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् [५]।
शान्तिनाथेन कौमारावस्थायां सार्धद्विलक्षवर्षाणां, राज्ये पञ्चलक्षवर्षाणां, दीक्षायां सार्धद्विलक्षवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने दशलक्षवर्षाणि भुक्तानि आसन् [६]।
भगवतः शान्तिनाथस्य चिह्नं मृगः अस्ति । भगवतः शान्तिनाथस्य चरणयोः मृगस्य प्रतीकं वर्तते । मृगः स्वाभाविकतया सरलः, शान्तश्च वर्तते । मृगस्य एकः एव दोषः अस्ति यत् – “सः सङ्गीते आकृष्टे भवति” इति । अनेन कारणेन एव व्याधाः मृगस्य आखेटकं कुर्वन्ति ।
मृगः अस्मान् बोधयति यत् - “वयम् अपि सङ्गीतम् इव मधुरया वाण्या मुग्धाः मा भवेम इति चिन्तनीयम् । यतः पश्चात् परिशोचितव्यं भवति ।
धर्मनाथस्य निर्वाणानन्तरं त्रिसागरमात्रात्मकवर्षाणाम् अनन्तरं शान्तिनाथस्य मोक्षः अभवत् ।
|
विकिमीडिया कॉमन्स् मध्ये शान्तिनाथः सम्बन्धिताः सञ्चिकाः सन्ति। |