शृङ्गाररसः


व्युत्पत्तिः

[सम्पादयतु]

गत्यर्थकात् ऋधातोः पृष्ठतः शृङ्गइत्येतस्य उपपदप्रयोगेण अण्प्रत्ययस्य योजनेन च सह शृङ्गारशब्दः निष्पन्नः भवति ।
शृङ्गं-कामोद्रेकम् ऋच्छति-गमयति इति शृङ्गारः इत्येतया व्युत्पत्त्या अयं शब्दः सिद्धः भवति । यः रसः सामाजिकस्य मनसि कामोद्रेकं जनयेत् सः रसः शृङ्गार इति निर्दिश्यते । शृङ्गारः रसानां राजा इति कथयन्ति ।

शृङ्गारप्रकाशे

[सम्पादयतु]

भोजराजः स्वस्य ग्रन्थे शृङ्गारप्रकाशेशृङ्गारमात्रमेव रसः इति एवं प्रतिपादयति

रसोऽभ्मानोऽहङ्कारः शृङ्गार इति गीयते ।
योऽर्थस्तस्यान्वयात् काव्यं कमनीयत्वमश्नुते ॥

अर्थः - आत्मगुणः अहङ्कारः आस्वाद्यः सन् रसः इति निर्देशं प्राप्नोति । अदृष्टशाली एव एव इदम् अनुभोक्तुम् अर्हति । सः भवति रसिकः । सः अभिमानबलेन रति-हास-क्रोधादीन् भावान् अनुभवति । अहङ्कारः रसिकम् अनुभवस्य शृङ्गं नाम शिखरं प्रति प्रापयति इत्यतः शृङ्गारमात्रमेव रसः इति व्युत्पत्तिवैचित्र्येण विचारशक्त्या च प्रतिपादयति । किन्तु अनेके जनाः इदं नानुमोदयन्ति ।

नाट्यशास्त्रे

[सम्पादयतु]

शृङ्गारः रतिस्थायिभावप्रभवः इति शृङ्गाररसस्य परिचयं करोति भरतमुनिः । अयम् उज्ज्वलवेषेण युक्तः भवति । स्त्री-पुरुषहेतुकश्च भवति ।

सङ्गीतरत्नाकरे दशरूपके च

[सम्पादयतु]

सङ्गीतरत्नाकरे धनञ्जयरचिते दशरूपके च शृङ्गारस्य परिचयः एवमस्ति - शृङ्गारः नवरसेषु आदिमः जनप्रियश्च । स्त्री पुंसयोरुत्तमयोः यूनोः पूर्णं सुबोधया । प्रारम्भात् फलपर्यन्तव्यापिनी स्मरसम्भृता ॥ संविदोरैक्यसम्पत्या क्रीडात्र स्थायिनी रतिः । (सङ्गीतरत्नाकरः) रम्यदेश-कला-काल-वेष-भोगादिसेवनैः । प्रहृष्यमाणः शृङ्गारो मधुराङ्गविचेष्टितः ॥ (दशरूपकम्) अर्थः - सुन्दरदेश-कला-वेष-भोगादीनां द्वारा परस्परम् अनुरक्तयोः युवक-युवत्योः जायमानः प्रमोदात्मकः भावः एव रतिः । स्त्रीपुरुषयोः परस्परं प्रेम एव रतिः । अनया रतिस्थाय्या जायमानः रसः एव शृङ्गाररसः । तन्नाम आलम्बन-उद्दीपनादिभिः विभावैः उदयमानैः आलिङ्गनालोकनादिभिः विविधैः अनुभावैः युक्ताः रोमाञ्चनादयः स्थायिभावाः उत्पद्यन्ते । श्रृङ्गारस्य रतिः स्यायिभावः भवति । नायकयोः र्हृदये जायमानस्संभोगविषयकः इच्छा विशेषः रतिः । स्त्री पुंसयोरन्योन्याऽऽलम्बनकः प्रेमाख्यश्चित्तवृत्तिविशेषो रतिरिति रसगङ्गाधरो निर्वक्ति । इयं रतिः रङ्कुर-पल्लव- कलिका –प्रसून-फल-भोगावस्थासु क्रमशो प्रेम –मान- प्रणय –स्नेह- राग- अनुरागनामभिर्व्यवह्रियते । आसु अष्टासु अवस्थासु आद्याः पञ्चावस्थाः पूर्वरागे षष्ठावस्था सम्भोगे च सम्भवति । प्रथमं नायिकायां रतेः प्रादुर्भावः पश्चात्तदिङ्गितैर्नायकस्य अनुरागः अनन्तरं तयोस्संयोगः इति क्रमेण वर्णनं निसर्गरमणीयमिति रुद्रटः प्रोवाच ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]