श्री कण्ठीरवः नरसिंहराज ऒडॆयर् बहद्दूरः (Shree Kanteerava Narasimharaaja Odeyar) अध्यक्षावधिः - क्रि.श. १९२४ तः १९४०पर्यन्तम् .
अस्य अध्यक्षावधौ सञ्चालितानि कन्नडसाहित्यसम्मेलनम् ।
क्रि.श. १९१५तमवर्षे ब्रिटिश् सर्वकारेण जि.सि.ऐ.इ. इति उपाधिः । क्रि.श. १९१८तमवर्षे ब्रिटिश् सर्वकारेण हिस् हैनेस् इति उपाधिः ।
क्रि.श. १९०२तमवर्षात् मैसूरुसंस्थानस्य युवराजपदम् । मिथिक् सोसैटि इति सङ्घटनस्य प्रधानोपपोषकः । मैसूरुविश्वविद्यालयस्य तात्कालिकः उपकुलपतिः ।
क्रि.श. १९०२तमे वर्षे प्रदत्ता नैट् कमाण्डर् इति प्रशस्तिः । परम्परया प्राप्ता युवराजपदम् । |
पत्नी केम्पु चेलुवाजम्मण्णि । क्रि.श. १९१०तमवर्षे दळवायी देवराजे अरसु इत्यस्य पुत्रीं चेलुवाजम्मण्णि इति कन्यां परिणीतवान् । पुत्रः जयचामराज ओडेयर् ।
युवराजः नरसिंहराज ओडेयर् अध्ययनेन सह आङ्गिकव्यायामः अश्वारोहणम्, मृगयात्रा, क्रिकेट्, टेन्निस्, पोलो इत्याद्याः क्रीडाः अतीव प्रियाः । बाल्ये एव राज्ये सर्वत्र प्रवासं कृत्वा जनानां जीवनं स्थितिगतिः इत्यादीन् विषयान् सङ्गृह्णाति स्म । तदाधारेण ग्रामीणजननां जीवनसमृद्धये बहुकार्याणि कृतवान् । क्रि.श. १९०८-०९तमवर्षेषु जपान् देशं सन्दृश्य तस्य देशस्य तान्त्रिकसामर्थ्यस्य कारणं ज्ञातवान् । तत्सर्वं तदानीन्तनकाले मैसूरुराज्ये अपि अनुष्ठातुं प्रायतत । क्रि.श. १९१३तमे वर्षे ऐरोप्यदेशेषु प्रवासं कृत्वा इङ्ग्लेण्ड्, फ्रान्स्, इटलि, स्विट्ज़र्लेण्ड्,बेल्ज़ियं राष्ट्रानि सन्दृश्य तेषां राज्यप्रशसनविषये अधिकं ज्ञातवान् । प्रथममहायुद्धे पीडितकुटुम्बानां परिहारार्थं निधिसङ्ग्रहं कृतवान् । मैसूरुप्रदेशस्स्य योधानां सौकर्यार्थं पृथक् धननिधिं स्थापितवान् । एषः मैसूरुसंस्थानस्य स्कौट् आन्दोलनस्य नेता रेड् क्रास् संस्थायाः सदस्य च आसीत् । गर्भवतीनां शिशूनां च चिकित्सार्थं पृथक् वैद्यालयानां प्रतिष्ठापितवान् । अविकसितसमाजस्य छात्राणां सौकर्यार्थं निश्शुल्कछात्रावासं निर्मितवान् । सर्वमतधर्मान् समानदृष्ट्या पश्यति स्म । हिन्दुमुसल्मानैकतां साधयितुं नितरां प्रयत्नमकरोत् । युवराजस्य अवस्थायाम् एव अस्य कार्यनिष्ठां कौशलं च ज्ञात्वा महाराजः एतस्मै सेनागणस्य, आरक्षकविभागस्य, वैद्यविभागस्य, नैर्मल्यस्य, कारागृहस्य च दायित्वं समर्पितवान् । अधिकारं सम्यक् कृत्वा महाराजस्य सर्वकारस्य च प्रशंसापात्रम् अभवत् ।