श्रीपाददामोदरसातवळेकरः पद्मभूषणेन सम्मानितः महाविद्वान् आर्यसमाजी ब्रह्मविद्यावादी स्वतंत्रतासेनानी राजनेता इष्वः कलाकारः योगशिक्षकः समाजसेवकः संपादकः संस्कृतज्ञः अनुश्रवकः च संस्कृतस्वयंशिक्षकस्य लेखकः चापि स्वाध्यायमंडलस्य संस्थापकः आसीत्।
सः १९२४ विक्रमसंवद्वर्षस्य आश्विनमासस्य कृष्णपक्षस्य षष्ठीतिथौ ( ख्रिष्टाब्दे १८६७ तमस्य वर्षस्य सिपतम्बर्-मासस्य विंशतौ दिनाङ्के) कोंकणप्रांतस्य सावंतवाडीजनपदस्य कोलग्रामे अजायत। सम्प्रति कोलग्रामः महाराष्ट्रस्य अहमदनगरमंडले स्थितः अस्ति।
तस्य पिता दामोदरभट्टः पितामहः अनन्तभट्टः प्रपितामहः कृष्णभट्टः च ऋग्वैदिकपरंपरायाः विद्वांसः आसन् अतः तस्य परिवारः समाजे सुप्रतिष्ठितः आसीत् । तस्य मातुः नाम लक्ष्मीबायी आसीत्। तस्य पिता वृत्त्या पुरोहितः जोशी च आसीत्। तस्य पिता स्वभूमिम् अपि कृषति स्म। सः अष्टवयोगतः कोलग्रामे एव निवसति स्म।
तेन पौरोहित्याय गृहे एव पतञ्जलेः व्याकरणमहाभाष्यं यावत् संस्कृतम् अध्यैत। ततः सः वेदानां केचन सूक्तानि वेनितुम् आरभत। एवं तस्य वैदिकदीक्षा बाल्ये एव आरभत।
अष्टवयोगतः तेन विद्यालयीयायै शिक्षायै सावंतवाडीम् अगम्यत। आचार्येण चिंतामणिशास्त्रीकेळकरेण तं संस्कृतव्याकरणम् अपाठयत्।
१८८७ तमे वर्षे आङ्गलाधिकारिणा वेस्ट्रप् इत्यनेन सावंतवाड्यां एका चित्रकलाशाला उद्घाटिता। धनाभावेन सः तत्र गन्तुम् आरभत। तत्र आचार्यस्य मालवणकरस्य चित्रकलायाः प्रतिभा सातवळेकरस्य चित्तम् अहरत्। सः एतां कलां वेत्तुं समकल्पत्। तस्य पिता अपि एतस्यां कलायां प्रवीणः आसीत्। शीघ्रमेव अभ्यासेन द्वयोः परीक्षायाः अनन्तरं सः अपि एतस्यां कलायां प्रवीणः बभूव। शिल्पकलायाम् अपि सः निपुणः अभवत्। अनन्तरं एताभ्यां कलाभ्यां सः बहु लाभान्वितः भूतवान्।
तस्य विवाहः १८८९ तमे वर्षे साधलेपरिवारस्य सरस्वतीबायी इत्यनया सह बभूव। अग्रिमे वर्षे सः भद्रतराय जीवनाय मुम्बयी जगाम। तत्र चित्रकलायाः अभ्यासस्य अनन्तरं सः संस्कृतस्य ग्रन्थान् अध्यैयि। सः वेदानाम् उपनिषदः योगासनानां प्राणायामस्य च भगवद्गीतायाः स्वाध्ययनं करोति स्म। सः सायिन्टिफिक् टर्मनलोजी ओफ् वैदिक् वर्सेस् (वैदिकमंत्राणां वैज्ञानिकः अर्थः) इति नाम्ना एकः लेखः अपि लिखितवान् यः १८९२ तमे वर्षे मराठीसमाचारपत्रे केसरी इत्यस्मिन् प्रकाशितः जातः च तस्य संपादकः लोकमान्यतिलकः लेखम् अश्लाघयत। श्रीपादः तिलकात् विशेषतः च तस्य भगवद्गीतायाः व्याख्यानात् प्रभावितः आसीत्। तस्य पाश्चात्येषु अभिलेखनेषु अपि तिलकस्य प्रभावः दृश्यते। सः तिलकेन कतिपयं वारं मिलितवान् आसीत्। सः प्रायः काङ्ग्रेस् इत्यस्य संगोष्ठ्यै अपि गच्छति स्म।
मुम्बयीनगरे सः प्रतिदिनं सूर्यनमस्कारं योगासनान् प्राणायामं च करोति स्म। सः आजीवनं एषः शीलः प्रावर्तत। अग्रे एनेन शीलेन सः एतेषां प्रचारं कृतवान्।
१८९३ तमे वर्षे मुम्बयीनगरस्य प्रसिद्धः जे.जे. स्कूल् ओफ् आर्ट्स इत्यस्मिन् तेन शिक्षकरूपेण नियुक्तः जातः। सः चित्रकलया शिल्पकलया द्विवारं प्रसिद्धः मायोस्वर्णपदकः अजयत्। विद्यालये तस्य सहचरः श्रीबालासाहेबपंतप्रतिनिधिः यः औंधप्रांतस्य राजकुमारः आसीत् तस्य आजीवनाय मित्रं बभूव। श्रीपादः प्रायः मुम्बयीतः औंधप्रांतं याति स्म। तत्र सः पर्याप्तं वितम् अर्जते स्म। सः पौरोहित्याय स्वग्रामं प्रतिगन्तुं न इच्छति स्म। यतोहि तस्मिन् समये पौरोहित्येन परिवारं दारिद्र्यात् न निर्गन्तुं शक्नुयात्। तथापि यदा सः अवकाशे स्वग्रामं प्रतिगच्छति स्म तदा सः पौरोहित्ये स्वपितुः साहाय्यं करोति स्म। तथापि सः जे.जे. स्कूल् ओफ् आर्ट्स इत्यस्मिन् स्वावस्थायाः न समतुष्यत्।
१९०० तमे वर्षान्ते सः मुम्बयीनगरात् स्वपदं त्यक्त्वा हैदराबादं गतवान्। तत्र सः प्रसिद्धस्य चित्रकारस्य देव्स्करस्य साहाय्येन एकं चित्रकर्मगृहं निरमात्। १९०१ तमस्य वर्षारम्भे चित्रकर्मगृहं निर्मितं जातम्। शीघ्रमेव तत् लाभकरं कार्यं प्रत्यपद्यत। मित्राणां सहयोगेन सः हैदराबादे विवेक वर्धिनी हायी स्कूल् समस्थापयत्। किञ्चिदनन्तरं सीतारामपन्तसातवळेकरः एतस्य विद्यालयस्य प्राचार्यः बभूव।
सः आर्यसमाजम् अपुटयत्। आर्यसमाजः यज्ञेषु पशुबलिं विरोधी आसीत्। श्रीपादः अपि मन्यते स्म यत् वेदेषु इदृश् आदेशः नास्ति। अतः सः एतस्य विरुद्धं बहवः यात्राः कृत्वा अभाषत। अनन्तरं सः वेदानां गहनाध्ययनम् आरभत। सः विद्वद्भिः सह चर्चां अपि करोति स्म। अस्मिन्नेव काले सः महर्षेः दयानन्दसरस्वतीवर्यस्य सत्यार्थप्रकाश् ऋग्वेदादिभाष्यभूमिका योगतत्वादर्श् च एतेषां ग्रन्थानां मराठ्यानुवादम् अपि लिलेख।
ततः सः थियोसोफिकल् सोसायटी इत्यस्य सदस्यः भूतवान्। तत्र सर्वे तस्य ज्ञानस्य विचाराणां च आद्रियन्ते स्म। विशेषतः डोक्टर् एनी बेसन्ट् तं मानति स्म।
थियोसोफिकल् सोसायटी इत्यनेन सह तस्य संबंधं क्रि. श. १९०७ पर्यन्तं चचाल। तस्मिन् एव वर्षे सः वैदिक राष्ट्रगीत लिखितवान् यत् ६३ सूक्तानां संग्रहः आसीत्। एषः संग्रहः हैदराबादतः प्रकाशितः मुम्बयीनगरे च अस्य २००० प्रतिरूपाणि मुद्रितानि। यदा ब्रिटिशसर्वकारः एतस्य संग्रहस्य विषये ज्ञातवान् तदा सर्वाणि प्रतिरूपाणि अधिहृत्वा अनश्यत्। अस्य हिन्द्यानुवादः यस्य ३००० प्रतिरूपाणि आसन् तम् अपि अध्यहरत। तथा श्रीपादं कृष्णसूचौ आङ्कयत। हैदराबादस्य निजामं (राजा) महबूब अलि खान बहादूर इत्येनम् अपि हैदराबादात् श्रीपादस्य निष्कासाय बबाधे। सः श्रीपादस्य कलायाः प्रशंसकः आसीत् इत्यर्थं श्रीपादाय सर्वान् राजनैतिकान् गतिविधीन् त्यक्त्वा शांतिपूर्वकः हैदराबादे निवासाय आज्ञापयत्। श्रीपादः हैदराबादं व्यौच्छत्। ततः सः केचन मासाः जयपुरे अतिष्ठत्।
अनन्तरं सः संस्कृतस्य चित्रकलायाः च शिक्षकरुपेण हरिद्वारे गुरुकुल काँगडी इत्यस्मिन् अयुनग्। एतस्य संस्थापकः आर्यसमाजी स्वामी श्रद्धानन्दः आसीत्। गुरुकुले श्रीपादः मराठ्या ब्रिलियेंस् ओफ् वैदिक प्रेयर्स् इति नाम्ना एकं लेखम् अलिखत् यः लेखः कोल्हापूरस्य विश्ववृत्त नाम्ना पत्रिकायाः मार्च् १९०८ अङ्के प्रकाशितः अभवत्। तदैव आङ्ग्लसर्वकारस्य प्रेरणया कोल्हापूरसर्वकारः श्रीपादस्य विरुद्धः राजद्रोहस्य अभियोगाय तं बन्धयितुम् अधिपत्रं निरसारयत्। एतस्य कार्यवाहिनः प्रतिकारे मुम्बयीनगरस्य इन्दुप्रकाश नाम्ना दैनिकायां पत्रिकायां लेखः प्रकाशितः बभूव। तदा श्रीपादः श्रद्धानन्देन सह चर्चया गुरुकुलाय प्रतिकारेण परिहर्तुं गुरुकुलम् अत्यजत्।
ततः सः कोल्हापूरे अभियोगं सम्मुखी कर्तुं निरचिनुत। मार्गे सः अहमदनगरे पुण्यपत्तने बेळगाव्यां च अतिष्ठत्। तस्य शुभचिन्तकाः तं समर्पणं न कर्तुं प्रार्थयन्। अतः सः अज्ञातः पथिकः इव अटति स्म। सः दाक्षिणे क्रमशः अनागोळ हङ्गिर्गे कुरुन्दवाड नामसु ग्रामेषु अतिष्ठत्। विश्ववृत्तस्य संपादकः बीजपुर्करः लेखस्य प्रकाशनाय मासषट्सु अदण्डयत। अतः विवेचनया स पिठापुरं गतवान् यस्य शासकः तस्मै एकः कार्यभारः ददौ। कार्यं प्रकृत्य सः कोलकातामध्येन काँगडीं प्रतिगन्तुं निरचिनुत। परन्तु सर्वकारः सुगूढभाषितेन तस्य प्रत्यागमनस्य अष्टचत्वारिंशत्होरामध्ये तं बन्धयित्वा बिजनौरकारागारे अयौटत्। डोक्टर् एनी बेसन्ट् तस्मै कोल्हापूरस्य महाराज्ञा माध्यस्थ्यम् अकरोत्। सः क्रि. श. १९०९ पर्यन्तं कारागृहे अवसत् तावत् कोल्हापूरस्य न्यायालयः तं व्यमोचयत्।
अनन्तरम् अपि सः यदा कदा काँगडीं गच्छति स्म।क्रि. श. १९१५ च १९१६ तमयोः वर्षयोः गाँधीवर्यः गुरुकुले कतिपयं वारम् अतिष्ठत् तदा श्रीपादः तेन सह दीर्घाः गहनाः चर्चाः करोति स्म।
ततः सः श्रद्धानन्दस्य परामर्शेन लाहोरं गन्तुं निरचिनुत यतः दक्षिणस्थानानि जीवितसंशयस्थानि मन्यते। १९०९ तमे वर्षान्ते सः लाहोरमध्ये स्वचित्रशाला सातवळेकर आर्ट् स्टुडियो इति च अनारकली रोड् इति नाम्ना स्थाने स्वनिवासः सुखसागर इति समस्थापयत्।
लाहोरमध्ये आर्यसमाजस्य सुष्ठु विस्तारः आसीत्। डोक्टर् सैफुद्दीनकिचलू् इत्यनेन लालालाजपतरायेण लालाहरदयालेन च आर्यसमाजस्य अन्यैः कार्यकर्तृभिः सः सुसमर्थनं प्राप्तवान्। ते पञ्जाबे बहुत्र श्रीपादस्य भाषणानि आयोजयन्। ततः सः भारते विशेषतः पञ्जाबस्य प्रतिगृहे वैदिकः पण्डितः च कलाकारः रूपेण विख्यातः जातः। तेन निर्मितानि चित्राणि जनाः श्लाघ्यन्ते स्म अपि च क्रीयन्ते स्म। ततः सः चित्रग्राहणम् अपि आरब्धवान्।
परंतु तस्य राजनैतिकैः गतिविधिभिः च भाषणैः ब्रिटिशसर्वकारः अक्रुध्यत। गदरान्दोलनं च होम् रूल् आन्दोलनम् इत्यनयोः कार्यकर्तृभ्यः तस्य प्रोत्साहनम् अपि ब्रिटिशसर्वकारस्य क्रोधम् अवर्ध्यत। सर्वकारः तस्य गृहम् आलोकयति स्म परिचराः च तस्य अतिथिषु आवागमनः पश्यन्ति स्म। अतः सः लाहोरं त्यक्तुं च स्वचित्रशालां स्वछात्राय दातुं निरचिनुत। तस्य आगामिनः निर्गमनस्य सूचना संपादकः श्रीकृष्णः उर्दूभाषायाः समाचारपत्रे अप्रकाशयत्। सः तस्य अभिवन्दनाय समाचारपत्रे नैकाः लेखाः अपि अलिखत्। तस्य लाहोराद् आप्रच्छनं बृहत् सम्मेलने अभवत्। लाहोरस्य रेलस्थानके अपि जनाः तस्मै वंदनाय आगतवन्तः आसन्। अतः सः १९१७ तमस्य वर्षस्य अक्टूबरमासे पञ्जाबस्य राज्यपालेन वहिष्करणस्य आदेशात् पूर्वम् एव लाहोरम् अत्यजत्। तावत् तस्य मासिकः आयः ₹१५००-१६०० अभवत्। सः तस्य अवशिष्टस्य आयस्य उपयोगः वेदेषु ग्रन्थान् लेखितुं प्रकाशयितुं चिन्तयति स्म।
तस्य निर्गमनस्य पश्चाद् अपि निरीक्षकाः तं दिल्लीपर्यन्तम् अन्वगच्छन्। तस्य पुरातनः सहचरः श्रीबालासाहेबपंतप्रतिनिधिः यः अधुना औंधप्रांतस्य राजा आसीत् तस्मै औंधम् आगत्य वसितुं प्रार्थयामास। अतः श्रीपादः औंधम् आगच्छत्।
प्रथमं वारं सः चित्रशाला स्थापयितुं अचिन्तयित्वा वेदानां गहनाध्ययनम् आरब्धवान्। सः वेदानां अनुवादं लिखति स्म। शनैः शनैः सः अजानात् यत् वेदाः केवलानां मन्त्राणां सामान्यः सङ्ग्रहः नास्ति परं तेषु आधुनिकं विज्ञानं लुम्बेत्। अतः वेदानां शुद्धः अनुवादः च व्याख्यानं जनेभ्यः अर्पणम् आवश्यकम्। कार्यं कठिनं च इत्यस्मै संस्थागतः परिश्रमः आवश्यकम् आसीत्। एतस्मै एव सः १९१८ तमे वर्षे स्वाध्यायमण्डलं समस्थापयत्। स्वकीयत्वेन विहित अध्यायः द्विजानाम् इति स्वाध्यायः च चक्रवालं तु मण्डलम्।पश्चात् औंधे मुद्राङ्कनयन्त्रम् अपि समस्थापयत्। एतस्मिन् एव काले सः आर्यसमाजम् अत्यजत् यतोहि तस्य केचन विचाराः आर्यसमाजात् भिन्नाः आसन्।
श्रीपादः अधुना वीर्य्यया अस्मै लक्ष्याय अन्वचलत्। सः वेदानां अनुवादः इत्यस्य अनुसाहित्यानि च सामाजिकेषु राजनैतिकेषु विषयेषु अलिखत्। १९१९ तमे वर्षे वैदिक धर्म इति नाम्ना हिन्द्या एका मासिका पत्रिका आरब्धवान्। अग्रिमे वर्षे तेन सितारामण्डलस्य काँग्रेससभायाः अध्यक्षः नियुक्तः। १९२४ तमे वर्षे पुरुषार्थ इति नाम्ना मराठ्या एका मासिका पत्रिका आरब्धवान्। तस्य लिखितः महाग्रन्थः पुरुषार्थ बोधिनी भगवद्गीता इतीदं क्रमबद्धतः प्रकाशयितुं भगवद्गीता नाम्ना मासिकायाः पत्रिकायाः प्रारंभ अभवत्। पश्चात् इदं हिन्द्या मराठ्या गुजरात्या आङ्ग्लेन च ग्रन्थरूपेण अप्रकाशयत।
पार्श्वतः सः जनजागृत्यभियानम् अपि अचालयत्। तेन १९३० तमे वर्षे सितारामण्डलपरिषदः अध्यक्षः नियुक्तः। सः तान्तवाय हस्ततन्त्रवापाय ग्रामपञ्चायताय पञ्चायतराजाय अपि कार्यम् अकरोत्। ब्रिटिशसर्वकारः औन्धात् बहिः तस्य गतिविधिभिः सतर्कः भूतवान्। तेन औन्धस्य शासके तस्य निष्कासितुम् अबाधयत। परिणामतः औन्धस्य शासकः तस्मै अष्टाहमध्ये औन्धं त्यक्तुम् आज्ञापयत्। ततः श्रीपादः सर्वान् राजनैतिकान् गतिविधीन् त्यक्त्वा केवलाय जनकल्याणाय कार्यं कर्तुं समकल्पयत्। अतः सः काँग्रेसपक्षम् अपि अत्यजत्। एवम् एषः प्रसङ्गः शान्तः जातः श्रीपादः च अभियोगाद् उदधरत।
औन्धस्य शासकेन तम् औन्धस्य राज्यसभायाः मुख्यः पण्डितः नियुक्तः कृतः। ततः सः शासकस्य समर्थनेन औंधाय बहूनि राजनैतिकाः संवैधानिकाः सामाजिकाः च दोषनिवृत्तयः कृतवान्। सः दाक्षिण्येषु प्रान्तेषु अपि प्रजापरिषदः संस्थाप्य एकता पुनर्जीवयितुम् अयतत्।
सः बहु कालात् क्वेट्टा रावळपिण्डी मुल्तान पेशावर अमृतसर लाहोर सियालकोट जम्मू होशियारपुर पटियाळा दिल्ली कर्णाटक गुजरात इत्येषां नगरेषु राष्ट्रियस्वयंसेवकसङ्घस्य गतिविधीन् लक्षयते स्म। १९३६ तमे वर्षे सः सतारामण्डले राष्ट्रियस्वयंसेवकसङ्घस्य स्वयंसेवकः बभूव। औन्धस्य सङ्घचालकरुपेण सः कतिपयाः शाखाः उदघाटयत्। १६ वर्षपर्यन्तं सः सङ्घाय असेवत। परन्तु सः आमरणं सङ्घेन सह जुजोड।
१९३९ तमे वर्षे सः अधिवक्त्रा अप्पासाहेबपन्तेन सह मिलित्वा गाँधीवर्येण सह औन्धाय संवैधानिकाभ्यः दोषनिवृत्तिभ्यः च प्रतिनैधिकाय लोकतन्त्राय चर्चाः अकरोत्। गाँधीवर्यस्य सहमत्या औन्धप्रान्ताय न्यवर्तत। एवम् औन्धः सर्वाधिकः प्रगतिशीलः प्रान्तः अभवत्। स्वेच्छया भारतगणराज्यं युज्यमानः प्रथमः प्रान्तः एषः एव। श्रीपादः १९४२ तमस्य वर्षस्य तयजत भारतान्दोलनम् इत्यस्य कार्यकर्तृभ्यः आश्रयाः प्रदातुम् अपि सहायकः अभवत्। तस्मिन् एव वर्षे सः दाक्षिण्यानां राज्यानां काँग्रेससभायाः अध्यक्षः भूत्वा सौहार्दतया राज्यानां गतिविधीन् निरदिशत्। एवं एषः अवधिः तस्मै बहु शुभः आसीत्।
एतावत् स्वाध्यायमण्डलं सुविख्यातं बभूव च मण्डलस्य पुस्तकानि संपूर्णे देशे अक्रीयन्त। भारतस्य स्वतन्त्रतायाः पश्चात् यदा औन्धः भारतगणराज्यम् अयुज्यत तदैव औन्धस्य शासकस्य शक्तिः अपि क्षीणः अभवत् परिणामतः श्रीपादस्य शक्तिः अपि क्षीणः अभवत्।
१९४८ तमे वर्षे मोहनदासस्य हत्यया बोम्बेराज्यस्य (तात्कालीनस्य महाराष्ट्रस्य) राजनैतिकं वातावरणं घातकम् अभवत्। यतोहि तस्य निहन्ता नाथूराम गोडसे इति जात्या ब्राह्मणः आसीत्। अतः संपूर्णे प्रदेशे ब्राह्मणेभ्यः आक्रमणानि आरभन्त। श्रीपादस्य आजीवनकृतीनां पाण्डुलिपीनां संपत्तीनां ग्रन्थानां सहचरानां सेवकानां आत्मनः च सुरक्षायै संशयः आगतवान् आसीत्। अतः तेन औन्धं त्यजनीयम्।
तेन मुम्बयी नाशिक तळेगाव लोणावळा आणन्द बडोदा अहमदाबाद इत्येषां नगरेषु वसितुं प्रयत्नं कृतं परं निष्फलम्। अन्ततः आर्यसमाजस्य न्यासिनः स्वभूमयः विक्रेतुम् असिध्यन्। १८ एकड परिमिता भूमिः किलापारडीतः २ किलोमीटर् दूरं सुरतमण्डले (सम्प्रति वल्साडमण्डले) स्थिता आसीत्।पूर्वं सा भूमिः कृष्टधर्मप्रचारकानाम् आसीत्। ते ताम् आर्यसमाजाय व्यक्रीणन्। ते भूमेः चर्च् इति ध्वस्त्वा शिलाखण्डानि नीत्वा अगच्छन्। श्रीपादः स्वयं तत्र गत्वा भूमिं दृष्टा तां क्रेतुं निरचिनुत। केचन जनाः आर्थिकाय साहाय्याय अकथयन् परंतु निष्फलाः। श्रीपादः ₹१ लक्षरूप्यकाणि सवृद्धिकम् ऋणं गृहीत्वा स्वाध्यायमण्डलाय भूमिम् अक्रीणात्। स्थानान्तरणस्य मूल्यम् अपि ₹७८००० आसीत्। एवं स्वाध्यायमण्डलाय ₹ १.५ लक्षरूप्यकाणि ऋणम् अभवत् तदा श्रीपादः ८० वर्षीयः वृद्धः आसीत्।
कार्यारम्भात् पूर्वं तत्र भूशान्तिः वेदपाठाः हवनाः अक्रियत। तत्र सः वेदमंदिर इति समस्थापयत् यस्य उद्घाटनं १९५४ तमे वर्षे अकरोत्। तस्मिन् एव वर्षे स्वाध्यायमण्डलस्य महोत्सवाय श्रीपादस्य आग्रहेन सर्वे भारतीयाः एककोटिः गायत्रीमन्त्रस्य जापाः कृतवन्तः। ततः स्वाध्यायमण्डले गायत्रीमन्त्रस्य महायज्ञः अभवत् यस्मिन् बहवः विद्वांसः साधवः आध्यात्मिकाः जनाः च आगच्छन्। सौभाग्येन भूमौ केचन अक्षतानि भवनानि आसन्। एकं विशालं भवनं तस्य निवासाय अतिथिभ्यः कार्येभ्यः च उपायुज्यत। तस्य भवनस्य नाम आनन्दाश्रम इति चक्रुः। अन्यानि भवनानि कार्यालयाय भाण्डागाराय दासगृहाय मुद्राङ्कनयन्त्राय च उपायुज्यन्त। कार्यं पुनः आरभत। सर्वे आशान्विताः उर्जावन्तः च आसन्। वेदसंदेश इति नाम्ना गुजरात्या एकाया मासिकायाः पत्रिकायाः प्रकाशनम् आरभत। अत्र सर्वाणि कार्याणि तस्य पुत्रः वसन्तरावः अवहत्। श्रीपादः स्वजीवनं संस्कृताय सूर्यनमस्काराय अभिभाषणेभ्यः वेदेभ्यः योगासनेभ्यः शास्त्रार्थेभ्यः चापि विद्वद्भिः सह सम्मेलनाय सिषेवे। श्रीपादः वेदान् अनुसृत्वा परिवाराय समाजाय च गृहस्थं जीवनं जीवति स्म। सः समभावी आसीत् च सर्वपन्थाणां नेतृभिः सह तस्य मधुरं संबंधम् आसीत्। श्रीबाल्टीवाला यः पारसी आसीत् सः अपि स्वाध्यायमण्डलस्य न्यासी ततः च अध्यक्षः अपि बभूव। वेदमंदिरे सर्वपन्थानां ग्रन्थाः आसन्। पारसीपन्थस्य मुख्यः पुरोहितः होरमस् मिर्जा जेन्ड अवेस्ता इति नाम्ना पारसीपन्थस्य मुख्यः ग्रन्थः च बजनाग्रामवासी नवाबसाहेब मुस्लिमजनानां मुख्यः ग्रन्थः कुरान् वेदमंदिरे दर्शयितुं अदत्ताम्। एते वेदानां सत्यादर्शाः यथा – आ नो᳚ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतो (ऋग्वेद. १.०८९.०१)। सः ऋषिः इव जीवति स्म।
श्रीपादः बहुप्रदः सुलेखकः आसीत्। तेन स्वजीवने ६०००० इत्यस्माद् अपि अधिकाः पुरस्काकृतीनां पाण्डुलिपीः लिखिताः। तेन ४०९ इत्यस्माद् अपि अधिकाः पुस्तकानि अपि प्रकाशितानि। तस्य लिखितानि बहवः ग्रन्थाः अधुना अपि अप्रकाशिताः सन्ति। इत्येषां सर्वाधिका प्रतिष्ठा तस्य वेदभाष्येभ्यः दद्यन्ते। आचार्यस्य सायणस्य संस्कृतेन वेदभाष्यानाम् अनन्तरं श्रीपादस्य हिन्द्या वेदभाष्यानि प्रसिद्धानि सन्ति।
संस्कृतस्य प्रचाराय सः संस्कृतस्वयंशिक्षक नाम्ना एकम् अद्भुतं ग्रन्थम् अपि अलिखत्। एतत् पुस्तकं सम्प्रति अपि बहुः लोकप्रियः अस्ति। स्वाध्यायमण्डलं संस्कृतस्य परीक्षानां सफलानि कार्यक्रमानि अपि अचालयत्। एतद् एव अनुसृत्य कनैयालाल मुनशी इत्यस्य प्रसिद्धा संस्था भारतीय विद्या भवन इत्यपि संस्कृतेन परीक्षानां कार्यक्रमानि अचालयत्।
१९६६ तमे वर्षे तस्य दशमीङ्गतस्य उल्लासः आरभत। अस्य वर्षस्य सप्तम्बरमासस्य १९ दिनाङ्के स्वाध्यायमण्डलस्य परिसरे महायोजनम् आयोजयत्। पूज्यः माधवरावगोळवलकरः तत्र गत्वा श्रीपादस्य कीर्तिम् अवर्धयत्। अस्य वर्षस्य अक्टूबरमासस्य ३० दिनाङ्के विशेषाङ्के डी वेट् (die welt) इति नाम्ना जर्मन्भाषीयायां श्रेष्ठायां दैनिकायां समाचारपत्रिकायां तस्य सम्मानजनकः उल्लेखः अभवत्। अहमदाबादे पुण्यपत्तने च तस्य सम्माने आयोजने अभवताम्। पूर्वम् अपि तस्य सम्माने बिहारे हैदराबादे मुम्बयीनगरे इत्यादिषु स्थानेषु आयोजनानि बभूवुः। मुम्बयीनगरे कनैयालाल मुनशी इति तस्य सम्मानं चकार।
स्विट्झर्ल्याण्ड्देशे रूसदेशे सूर्यमूले (जापान्) च वैश्विकधार्मिकसम्मेलनेषु (वर्ल्ड् रिलिजन्स् कोन्फ्रेन्स्) अपि सः आमन्त्रितः अभवत् ।
मोहनदासगाँधी संस्कृतप्रचाराय तं श्लाघयति स्म। इन्दिरागाँधी अपि विशेषतः किलापारडीं गत्वा तस्य कार्यम् अश्लाघयत्। तस्य प्रशंसकाः अभ्यागताः विनोबाभावे माधवरावगोळवलकरः काकाकालेलकरः चिन्तामण्देशमुखः अरविन्दोघोषः पुरुषोत्तममावळङ्करः महादेवदेसायी बलवन्तरायमेहता मोरारजीदेसायी हितेन्द्रदेसायी श्रीप्रकाशः नवाब्मेह्दीनवाज्जङ्गः इत्यादिनः आसन्।
सः मन्यते स्म यत् जनाः वैदिकरीत्या सारल्येन शतवर्षीयम् अधिकं वा जीवनं जीवेयुः। सः स्वोदाहरणम् समस्थापयत्। ख्रिष्टाब्दे १९६९ तमस्य वर्षस्य जून्मासस्य ८ दिनाङ्के तस्मै पक्षाघातः अभवत्। सः विक्रमसंवद्वर्षस्य २०२६ तमस्य श्रावणमासस्य कृष्णपक्षस्य तृतीयतिथौ (ख्रिष्टाब्दे १९६९ तमस्य वर्षस्य जुलायीमासस्य ३१ दिनाङ्के) देहम् अत्यजत्। सः १०१ वर्षाद् अपि अधिकम् अजीवत्। सः नूनम् आदर्शं जीवनम् अजीवत्।