सुमतिनाथः | |
---|---|
पञ्चमः जैनतीर्थङ्करः | |
सुमतिनाथस्य प्रतिमा | |
विवरणम् | |
ऐतिहासिककालः | १ × १०२२२ वर्षाणि पूर्वम् |
परिवारः | |
पिता | मेघः |
माता | मंगला |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | अयोध्या |
निर्वाणम् | सम्मेदशिखरम् |
लक्षणम् | |
वर्णः | सुवर्णः |
चिन्हम् | क्रौञ्चः |
औन्नत्यम् | ३०० धनुर्मात्रात्मकम् (९०० मीटर्) |
आयुः | ४०,००,००० पूर्वम् (२८२.२४ × १०१८ वर्षाणि) |
शासकदेवः | |
यक्षः | तुम्बरु |
यक्षिणी | महाकाली |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
सुमतिनाथः( ( शृणु) /ˈsʊmətɪnɑːθəhə/) (हिन्दी: सुमतिनाथ,आङ्ग्ल: Sumatinatha) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु पञ्चमतीर्थङ्करः अस्ति । सुमतिनाथस्य वर्णः सुवर्णः, चिह्नं क्रौञ्चः च अस्ति । कौमारावस्थायां सुमतिनाथस्य शरीरस्य औन्नत्यं त्रिशत (३००) धनुर्मात्रात्मकम् आसीत् ।
अयोध्यानगर्यां वैशाख-मासस्य शुक्लपक्षस्य अष्टम्यां तिथौ मध्यरात्रौ मघानक्षत्रे भगवतः सुमतिनाथस्य जन्म अभवत् [१]। सः काश्यपगोत्रीयः आसीत् ।
सुमतिनाथस्य पिता मेघः, माता मङ्गलावती च आसीत् । एकस्यां रात्रौ मङ्गलावत्या तीर्थङ्करसंकेतकाः चतुर्दश स्वप्नाः दृष्टाः । स्वप्नशास्त्रिभिः स्वप्नानां फलादेशः उक्तः यत् – “मङ्गलावत्याः कुक्ष्याः एकस्य तीर्थङ्करस्य जन्म भविष्यति” इति । स्वप्नशास्त्रिणां वचनं श्रुत्वा सर्वे प्रसन्नाः अभवन् ।
गर्भकालस्य समाप्त्यनन्तरं भगवतः सुमतिनाथस्य जन्म अभवत् । चतुष्षष्टिः इन्द्राः अपि जन्मोत्सवम् आचरितुं समागताः आसन् । राज्ञा मेघेन सम्पूर्णे राज्ये दानं कृतम् । सम्पूर्णे राज्ये पुत्रजन्मनः उत्सवः आचरितः आसीत् ।
पूर्वजन्मनि जम्बूद्वीपस्य पुष्कलावतीविजये भगवतः सुमतिनाथस्य जन्म अभवत् । तस्य पिता राजा विजयसेनः, माता सुदर्शना च आसीत् । राज्ञः विजयसेनस्य गृहे सन्ततिः नासीत् । तेन राज्ञी सुदर्शना चिन्ताग्रस्ता आसीत् ।
एकदा तौ अटितुम् उपवनं गतवन्तौ आस्ताम् । उपवने ताभ्याम् एका स्त्री दृष्टा । तस्याः स्त्रियः अष्टपुत्रवध्वः आसन् । तद्द्रष्ट्वा सुदर्शना पुनः विषादग्रस्ता जाता । सा राजप्रासादं प्राप्य क्रन्दन्ती आसीत् । राज्ञा तस्याः दुःखस्य कारणं ज्ञातम् । अनन्तरं राज्ञा कुलदेव्याः प्रसन्नतायै अठ्ठम-तपः कृतः ।
तपस्यया कुलदेवी प्रसन्ना जाता । राजा संतानोत्पत्तिविषयिकीं समस्यां कुलदेव्यै उक्तवान् । तदा देव्या उक्तं यत् – “स्वर्गलोकात् एकः देवः अवतरिष्यति । सः एव पुत्रत्वेन सुदर्शनायाः कुक्ष्याः गर्भं प्रवेक्ष्यति । इमं सुसन्देशं श्रुत्वा राज्ञी सुदर्शना प्रफुल्लिता अभवत् । सः पुत्रप्राप्तये प्रतीक्षां कुर्वती आसीत् ।
समयान्तरे राज्ञ्या गर्भः धृतः । नवमासानन्तरं राज्ञी एकं पुत्ररत्नम् अजीजनत् । सः पुत्रः रूपवान् आसीत् । राज्ञा तस्य नाम पुरुषसिंहः इति कृतम् । पुत्रस्य पालनं श्रेष्ठतया अभवत्[२] ।
एकदा पुरुषसिंहः अटितुम् उद्यानं गतः । उद्याने विजयनन्दनाचार्येण सह पुरुषसिंहस्य मेलनं जातम् । विजयनन्दनाचार्यस्य प्रवचनं श्रुत्वा पुरुषसिंहः विरक्तः अभवत् । अतः पुरुषसिंहः युवावस्थायाम् एव दीक्षां प्रापत् । अनन्तरं तेन अणगारमुनिः इति नाम परिवर्तितम् । सः उत्कृष्टः तपः, ध्यानं च कृतवान् । अन्ते सः स्वर्गलोकं गतः ।
नामकरणस्य दिने राज्ञा मेघेन भव्यायोजनं कृतम् आसीत् । तस्मिन् उत्सवे नगरस्य सर्वेषां वर्गाणां जनाः समुपस्थिताः आसन् । नामविषयिक्यां चर्चायां विभिन्नमतानि प्राप्तानि । राज्ञा मेघेन उक्तं यत् – “ यदा अयं बालकः गर्भे आसीत्, तदा राज्ञ्याः मङ्गलावत्याः बौद्धिकक्षमतायां वृद्धिः अभवत् । मङ्गलावती समस्यानां समाधानं सुष्ठुतया, स्पष्टतया च कुर्वती आसीत् । राजकीयविषयेषु अपि सा निपुणा जाता ।
अस्मिन् सन्दर्भे राज्ञा एका घटना श्राविता यत् – “केभ्यश्चित् मासेभ्यः पूर्वम् एकः विवादः समुपस्थितः । किन्तु अहं तस्य निर्णयं कर्तुम् असमर्थः आसम् । एकस्य सज्जनस्य पत्नीद्वयम् आसीत् । एकस्याः पत्न्याः एकः पुत्रः आसीत् । अपरायाः सन्ततिः एव नासीत् । किन्तु द्वयोः पत्न्योः परस्परं स्नेहः आसीत् । अतः द्वे पुत्रस्य पालनं कुरुतः स्म । एकस्मिन् दिवसे सज्जनस्य अवसानम् अभवत् । पत्युः अवसानानन्तरं सम्पत्तेः अधिकाराय द्वे पत्न्यौ कलहं कुर्वत्यौ आस्ताम् । निर्दोषः बालकः अपि द्वे माता इति सम्बोधयति स्म । “का तस्य बालकस्य जन्मदात्री अस्ति” इति निर्णयः दुष्करः आसीत् ।
कस्मिंश्चित् अज्ञातप्रदेशे तस्य बालकस्य जन्म अभवत् । अतः तस्य विषये नगरजनाः अपि न जानन्ति स्म । सत्यं ज्ञातुं मया महत्प्रयासाः कृताः । किन्तु अहं निष्फलो अभवम् । एतस्मात् कारणात् तस्मिन् दिवसे अहं भोजनं कर्तुम् अपि विलम्बेन गतवान् । तदा मङ्गलावत्या मत् विवादनिर्णयस्य अधिकारः याचितः । मया मङ्गलावत्यै निर्णयाधिकारः प्रदत्तः ।
राज्ञ्या मङ्गलावत्या विवादस्य एकः उपायः निष्कासितः । तया द्वे स्त्रियौ उक्ते – “बालकः एकः एव किन्तु भवत्यौ द्वे स्तः । अतः अहम् अस्य बालकस्य द्वौ भागौ कृत्वा भवतीभ्यां दास्यामि । अनेन निर्णयेन एकया स्त्रिया तत्निर्णयः स्वीकृतः । यतः तस्य मनसि बालकस्य मृत्योः चिन्ता एव नासीत् । किन्तु या जन्मदात्री आसीत्, तया तन्निर्णयः नाङ्गीकृतः । तदा मङ्गलावत्या निर्णयः कृतः यत् – बालकः अस्याः एव अस्ति या अङ्गीकर्तुं नेच्छति । इयमेव जन्मदात्री अस्ति । यतः माता स्वस्य पुत्रं मृतत्वेन दृष्टुं न शक्नोति” [३]।
यदा मया (राजा मेघः) अयं निर्णयः श्रुतः, तदा मङ्गलावत्याः कुशलतायाः अहं चकितो अभवम् । अतः मया ज्ञातं यत् – अयं गर्भस्थस्य शिशोः एव प्रभावः वर्तते”।
अन्ते राज्ञा मेघेन बालकस्य सुमतिकुमारः इति नाम विचारितम् । सर्वे जनाः अपि अनेन नाम्ना सन्तुष्टाः आसन् ।
यदा सुमतिकुमारः विवाहावस्थायां प्राविशत्, तदा राजा मेघः अनेकाभिः सुकन्याभिः सह तस्य विवाहं कारितवान् । भोगावलिकर्मणाम् आरम्भात् एव सुमतिकुमारः पञ्चेन्द्रियसुखानाम् उपभोगं कुर्वन् आसीत् । राज्ञा मेघेन सुसमयं निश्चित्य राजकुमारस्य सुमतेः राज्याभिषेकः कृतः आसीत् । ततः परं सः निवृत्तिं सम्प्राप्य साधनायै निर्गतवान् आसीत् [४]।
सुमतिकुमारः राज्यस्य उचितं सञ्चालनं कुर्वन् आसीत् । प्रजाजनानां मनसि राज्ञे आस्था आसीत् । जनाः सुमतिकुमारस्य प्रत्येकम् आदेशं स्वीकुर्वन्ति स्म । शासनव्यवस्था अपि सुष्ठुतया चलन्ती आसीत् ।
भोगावलीकर्माणि क्षीणानि जातानि । अनन्तरं लोकान्तिकदेवाः आगताः । देवानाम् अवबोधनेन राज्ञा सुमतिनाथेन वार्षिकीदानस्य प्रारम्भः कृतः । सः एकवर्षं यावत् दानं कृतवान् । सः जनेभ्यः सन्तुष्टिपूर्वकं दानं करोति स्म । वार्षिकीदानानन्तरं सुमतिनाथेन दीक्षायै राज्यं त्यक्तम् ।
भगवता अयोध्या-नगर्यां वैशाख-मासस्य शुक्लपक्षस्य नवम्यां तिथौ मघा-नक्षत्रे सहस्त्रजनैः सह दीक्षा अङ्गीकृता । आगामिदिने विजयपुरस्य राज्ञः पद्मनः गृहे भगवता सुमतिनाथेन प्रथमं भोजनं गृहीतम् आसीत् [५]। सुमतिनाथः सर्वं त्यक्त्वा वैराग्यं प्रापत् ।
विंशतिवर्षाणि यावत् भगवान् सुमतिनाथः छद्मस्थकाले उत्कृष्टसाधनां कुर्वन् विचरति स्म । सः विचरणं कृत्वा पुनः अयोध्यानगरीम् अप्रापत् । चैत्र-मासस्य शुक्लपक्षस्य एकादश्यां तिथौ मघा-नक्षत्रे भगवान् सुमतिनाथः केवलज्ञानं प्राप्तवान् । तस्मिन् दिने लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च समुपस्थिताः अभवन् । भगवता तीर्थस्य स्थापना अपि कृता । जनैः अपि शक्त्यनुसारं व्रतोपवासाः अङ्गीकृताः ।
यदा भगवान् सुमतिनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा सुमतिनाथेन धार्मिकपरिवारस्य अपि रचना कृता[६]।
यदा भगवता सुमतिनाथेन निर्वाणसमयः ज्ञातः, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वाणि कर्माणि नष्टानि जातानि । अनन्तरं सः सिद्धत्वं प्रापत् ।
चैत्र-मासस्य शुक्लपक्षस्य नवम्यां तिथौ पुनर्वसु-नक्षत्रे सम्मेदशिखरे भगवतः सुमतिनाथस्य निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन् [७]।
सुमतिनाथेन कौमारावस्थायां दशलक्षवर्षाणां, राज्ये एकोनत्रिंशल्लक्षवर्षाणां, दीक्षायां द्वादशपूर्वाङ्गं च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने चत्वारिंशल्लक्षवर्षाणि भुक्तानि आसन् [८]।
|
विकिमीडिया कॉमन्स् मध्ये सुमतिनाथः सम्बन्धिताः सञ्चिकाः सन्ति। |